SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ श्रीभगवन्नामकौमुदी। हरिमेव गृणन्निति; अविवक्षितैव म्रियमाणता, श्रद्धाऽपि मुक्तयर्थमेव विधीयते न पापक्षयमात्रार्थम् , अगाधामेति वचनात् , सा च यद्यस्तीति न वक्तव्यं पुत्रसंदिग्धकं वचः । सर्वस्मादधिकोऽस्त्येन शिवः परमकारणमि त्याद्यक्तलक्षणा, न तु कीर्तनविधिविषयिणी, तस्याः फलोपकारित्वस्य निराकृतत्वाद् । अपि चाजामिलस्यापि न मुख्या नियमाणता कीतनोत्तरकालमप्यवस्थानप्रतिपादनात्, तस्य च तावतैव पापक्षयप्रतिपादनाद्, अविवक्षित एव मरणकालः:"नामानि येऽसुविगमे विवशा गृगन्ती"त्यत्रापि विवशसाहचर्यादसुविगमोन विवक्षितः, न हि विवशत्वं विधीयते तद्वदसुविगमोऽपि, ततश्चासुविगमेऽपीत्यर्थः न पुनरसूविगमएवेति. एवं मरणे हरिमुच्चरेदित्यत्रापि मरणेऽपि हरिशब्दमुच्चरेदिति व्याख्येयंसमानविषयत्वात्, तत्सालोक्यादिफलेषु पुनरुपासनेध्वन्त्यप्रत्ययोऽभ्यर्हितः, “यथा ऋतुरमिंल्लोके पुरुषो भवति तथेतः प्रेत्य भवती"तिश्रुतेः, ततश्च प्रयाणकाले मनसाऽचलेन बुद्ध्या युक्तो योगबलेन चैव । भ्रुवोर्मध्ये प्राणमावेश्य सम्यक् स तं परं पुरुषमुपैति दिव्यमित्यादिषु विवक्षित एव कालः । ये पुनर्ग्रहणादयः कालविशेषाः पर्वताग्रादयश्च देशविशेषाः तत्र तत्रोक्तास्ते पुरश्चरणादिकाङ्गभूताः, पुरश्चरणं च मन्त्राणां संस्कारकम् प्राधानमिवानीनां, संस्कृतानां च तेषामैहि Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034479
Book TitleBhagwannam Kaumudi
Original Sutra AuthorN/A
AuthorLakshmidhar
PublisherAchyut Granthmala Karyalay
Publication Year
Total Pages160
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy