SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ ( ७ ) दास्येनेदमुपास्य सोऽपि हि सदानन्दाम्बुधौ मज्जति” इत्थमुपन्यभान्त्सुः, विशेषस्त्वाकरादितोऽवसेयः । अस्याश्च श्रीभगवन्नामकौमुद्याः प्रणेता मीमांसापारावारीणोविपश्चिन्मूर्धन्यो श्रीमालूँ लक्ष्मीधरः कदाssसीदित्यस्य सूक्ष्मतम प्रमा. पकस्यानुपलम्भतो यावदुपलब्धमेव जिज्ञासुवृन्दायोपहियते, ग्रन्थकर्ताऽयं पञ्चदशशततमशकाब्दात् पूर्वं भुवं जन्मनाऽलंच कारेति प्रमातुं शक्यं निर्दिष्टशब्दासन्नसमयावधि श्रीवृन्दावनमध्यासीनैरस्मदुपजीव्यपूर्वपुरुवैः पूज्यपादैर्माध्वसंप्रदायाचार्यैः श्रीमद्गोपाल भट्ट गोस्वामिचरणैः सम्हब्धे षट्सन्दर्भापराख्ये श्रीभागवतसन्दर्भे प्रकृतन्थीयनामनिर्देशपुरस्सरं सानुपूर्वीक वाक्य विशेषस्योद्धृतत्वात् । सौन्दर्यलहरीव्याख्यातृप्रभृतिष्वनेकेषु लक्ष्मीधरनामकेषु कतमोऽयमस्मदीयो महाभाग इति तु निर्णेतुमधुनाऽपि नापारि । एतद्देशविषयेऽपि न किञ्चिदपि पर्यचायि । श्रीभगवन्नाम कौमुद्याः प्रकाशाख्यटीकायाः कर्ता मीमांसा धुरन्धरापदेवस्य सूनुरनन्तदेवोऽनुरूपश्च वैदुष्येऽपि पितुर्देवोपाख्यमहाराष्ट्र ब्राह्म. यः खिष्टीय सप्तशताब्दीतः पूर्वमासीदिति कथमपि सम्भावयितुं शक्यते । अनयोर्मूलटीकयोर्मूलस्य पुस्तकं प्रख्यातचरवैदुषीकै द्वैतरहस्यप्रतिष्ठापकधुरीणैमध्व सम्प्रदायाचार्यैरचंनीयच र खैरस्मत्तात गोस्वामिश्रीगोपीलाल महाराजैर्महता यत्नेन सङ्गृह्य पुरुषक्रमागते स्वेन वर्धिते च श्रीवृन्दावनस्थेऽस्मदीयश्रीमदनगोपालपुस्तकालये रक्षितं तत्र विराजमानैः सङ्गीतविशिरोमणिभिर्माध्वसम्प्रदायाचार्यैः पूज्यपादास्मद्भ्रातृविद्याभूषणश्रीवनमा लिलाल महाराजैश्च प्रेषितमेकं शुद्धं च द्वितीयं तु बहुत्राशुद्धं नयपालाभिजनकाशीवासि विनयाद्यलङ्कत केस र्युपाख्यश्रीपद्मनाभशर्म पण्डितस्य सौकर्यार्थमानायि; विहितं च भूरि साहायकमेनेनाशुद्धेनापि । こ टीकायास्त्वेकमेव पुस्तकमुक्त केस रिमहात्मन एव प्राप्तम्, ईदृशमकैतवमुपकारातिशयं विदधतं महाशयं येनोपमिमीमहे न तादृशमु पमानमुपलभामहे । .. मूलप्रधानप्रतिपाद्यप्रयोजककर्मीभूतवृन्दिष्ठवस्तुसम्पर्क गृभ्रमनसा मा परम्परा परिचर्ययाऽप्यात्मानं पिपविषमाणेन स्थलविशेषेषु टिपन्या समयोजिषातां मूलटीके । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034479
Book TitleBhagwannam Kaumudi
Original Sutra AuthorN/A
AuthorLakshmidhar
PublisherAchyut Granthmala Karyalay
Publication Year
Total Pages160
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy