SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ जम्बूस्वामिचरिते सर्वप्राणिदयालक्ष्मी गृहस्थशमिनोर्द्विधा । रत्नत्रयमयो धर्मः स त्रिधा जिनदेशितः ।। १५१ ॥ नरत्वं प्राप्य दुष्प्राप्यं यो न धर्म समाचरेत् । नूनं मन्ये वृथा तस्य जन्म प्राप्तमपि स्फुटम् ॥ १५२ ॥ पीत्वा वाक्यामृतं पूतं प्राप्तं मुनिमहोदधेः । भवदेवो व्रतान्युच्चैः श्रावकस्यागृहीत्तदा ।। १५३ । संग्रहीतव्रतेनाशु विज्ञप्तो मुनिनायकः । स्वामिन्नत्र गृहे मेऽद्य त्वया भोज्यं कृपापर ।। १५४ ।। विज्ञप्तेरनुजस्यैव भ्रातृधर्मानुरागतः । मुनिः स शुद्धमाहारं निःसावद्यं जघास सः ॥ १५५ ॥ ततश्चेर्यापथं पश्यंश्चचाल मुनिपुंगवः । तिष्ठते यत्र सौधर्मो यतिवृंदसमन्वितः ॥ १५६ ॥ ततः पौरजनाः केचिद्विनाप्यनुमतिं मुनेः । चेलुस्तमनुगच्छंतं प्रश्रयस्य कृतेऽर्थतः ।। १५७ ।। तत्सार्थत्वमिवादाय कियद्दूरं यथायथम् । गत्वा पुनर्नमस्कृत्य व्यावृत्य गृहमाययुः || १५८ ॥ भवदेवोऽनुजो भ्राता तेन सार्धमजीगमत् । गृहे गच्छ गुरोराज्ञां प्रतीच्छन्निति गौरवात् ।। १५९ ॥ मुनिनाभाणि न तद्वाक्यमहिंसाव्रतघातकम् । धर्मध्वंसभिया शश्वद्रक्षता संयमादिकान् ।। १६० ॥ एवमेव गतो दूरे दूराद्दूरतरेऽपि च । मुमुक्षुः कंकणग्रंथी व्याकुलीभूतचेतसः ॥ १६९ ॥ ६६
SR No.034462
Book TitleJambuswami Charitram
Original Sutra AuthorN/A
AuthorRajmalla Pandit, Jagdishchandra Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1937
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy