SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ जम्बूस्वामिचरिते प्रतस्थेऽथ महाभागो वंदारुः श्रेणिको नृपः । महाहस्त्यश्वपादातिरथंकट्या वृतोऽभितः ॥ ३१३ ॥ रेजे प्रचलिता सेना ततानकपृथुध्वनिः । वेलेव वारिधेः प्रेङ्खदसंख्यध्वजवीचिकाः ॥ ३१४ ।। तया परिवृतः प्रापत्स जिना स्थान मंडपम् । प्रसत्प्रभया दिक्षु जितमार्तडमण्डलम् ॥ ३२५ ॥ परीत्य पूजयन्मानस्तंभान्सोम्यैः ततः परम् । खातां लतां वनं शालं वनानां च चतुष्टयम् ।। ३१६ ।। द्वितीयशालमुत्क्रम्य ध्वजान् कल्पद्रुमावलीम् । स्तूपान् प्रासादमालाथ पश्यन्विस्मयमाप सः ॥ ३१७ ॥ ततो द्वारिकैदेवैः संभ्राम्यद्भिः प्रवेशितः । श्रीमंडपस्य वैदग्धीं सोऽपश्यत्स्वर्गजित्वरीम् ॥ ३१८ ॥ ततः प्रदक्षिणीकुर्वन् धर्मचक्रचतुष्टयम् । ४८ लक्ष्मीं वा पूजयामास प्राप्य प्रथमपीठिकाम् ।। ३१९ ॥ ततो द्वितीयपीठस्थान् विभोरष्टौ महाध्वजान् । सोऽर्चयामास संप्रीतः पूतैर्गधादिवस्तुभिः ।। ३२० ॥ मध्ये गंधकुटी द्विद्विपारार्द्ध हरिविष्टरे । उदयाचलमूर्द्धस्थमिवार्क जिनमैक्षत ।। ३२१ ॥ चलच्चामरसंघातवीज्यमानं महातनुम् । प्रपतन्निर्झरं मेरुमिव चामीकरच्छविम् ।। ३२२ ॥ इत्याद्यष्टप्रतीहारैर्विभ्राजतं जिनेश्वरम् । स त्रिः प्रदक्षिणीकृत्य भगवंतं जगद्गुरुम् ।। ३२३ ।। १ रथानां समूहः इति रथकटया । २ सूर्य । ३ शोभां ।
SR No.034462
Book TitleJambuswami Charitram
Original Sutra AuthorN/A
AuthorRajmalla Pandit, Jagdishchandra Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1937
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy