SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ जम्बूस्वामिचरिते सुरैर्दूरादथालोक्य विभोरास्थानमंडलम् । सुरशिल्पिभिरारख्धपरार्द्धिरवनाशतम् ( १ ) ।। २७१ ॥ ४४ एकयोजनविस्तारमभूदास्थानमीशितुः । हरिनीलमहारत्नघटितं विलसत्तलम् ।। २७२ ।। सुरेन्द्रनीलनिर्माणं समवृत्तं तदा बभौ । त्रिजगत्स्त्रीमुखा लोकमंगलादर्शविभ्रमम् ।। २७३ ।। संस्थानमण्डलस्यास्य संस्थानं को तु वर्णयेत् । सुत्रमा सूत्रधारोऽभूनिर्माण यस्य कर्मठः ॥ २७४ ॥ तथाप्यनृद्यते किंचिदस्य शोभासमुच्चयः । श्रुतेन येन संप्रीतिं भेजे भव्यात्मनां मनः ।। २७५ ।। पंचवर्णमयोद्भासिरत्नपांशुभिराचितः । तस्य पर्यंतभूभागे धूलीशालः परिष्कृतः ।। २७६ ।। चतसृष्वपि दिवस्य हेमस्तंभाग्रलंबिताः । तोरणानां करस्पर्शिरत्नमाला विरेजिरे ।। २७७ ॥ ततोऽतरांतरं किंचिद्गत्वा हाटकनिर्मिताः । रेजे मध्येषु वीथीनां मानस्तंभाः समुच्छ्रिताः ॥ २७८ ॥ अधिष्ठिता विरेजुस्ते मानस्तंभा मनोलिहः । ये दूराद्वीक्षिता मानं स्तंभयंत्याशु दुर्दशाम् || २७९ ॥ उक्तं च “मानस्तंभाः सरांसि प्रविमलजलमत्खातिका पुष्पवाटी । प्राकारो नाट्यशाला द्वितयमुपवनं वेदिकांतर्ध्वजाद्याः । १ समवशरणम् । २ इन्द्राः ।
SR No.034462
Book TitleJambuswami Charitram
Original Sutra AuthorN/A
AuthorRajmalla Pandit, Jagdishchandra Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1937
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy