SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ श्रेणिकमहाराजसमवसरणगमनवर्णनम् तेषामाहारसंप्रीतिर्जायते दिवसैत्रिभिः। कवलीफलमात्रं च दिव्यानं विष्वणंति ते ॥१७॥ निर्व्यायामा निरातका निर्बीहारा निरामयाः। निःस्वेदास्ते निरावाचं जीवंति पुरुषायुषं ॥१८॥ स्त्रियोऽपि तावदायुष्कास्तावदुत्सेधवृत्तयः। कल्पद्रुमेषु संसक्ताः कल्पवल्ल्य इवोज्वलाः॥१९ ॥ पुरुषेष्वनुरक्तास्तास्ते च तास्वनुरागिणः । यावज्जीवमसंश्लिष्टा भुंजते भोगसंपदः ॥ २० ॥ स्वभावसुंदरं रूपं स्वभावमधुरं वचः। स्वभावचतुरा चेष्टा तेषां स्वर्गायुषामिव ॥ २१ ॥ रुच्याहारगृहातोद्यमाल्यभूषाम्बरादिकम् । भोगसाधनमेतेषां सर्वकल्पतरूद्भवम् ॥ २२ ॥ मंदगंधवहाधृतचलदंशुकपल्लवाः। नित्यालोका विराजते कल्पोपपदपादपाः ॥ २३॥ कालानुभावसंभूतक्षेत्रसामर्थ्यबृंहिताः । कल्पद्रुमास्तदा तेषां कल्पतेऽभीष्टसिद्धये ॥ २४ ॥ मनोभिरुचितान् भोगान् यस्मात्पुण्यकृतां नृणाम् । कल्पयंति ततस्तज्ज्ञैर्निरुक्ताः कल्पपादपाः॥२५॥ मद्यत्तूर्यविभूषास्रज्योतिर्दीपगृहांगकाः । भोजनामत्रवस्त्रांगा दशधा कल्पशाखिनः ॥२६॥ १ बर' इति देशीभाषायां । २ भक्षयति । ३ मलरहिताः । ४ विरहरहिताः। ५. देवानामिव । ६ वादित्रं । ७ लेपनं । ८ पवनः । ९ कल्पवृक्षाः । १० वर्द्धिताः ।
SR No.034462
Book TitleJambuswami Charitram
Original Sutra AuthorN/A
AuthorRajmalla Pandit, Jagdishchandra Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1937
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy