SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ कथामुखवर्णनम् तत्पुत्रोऽस्त्यत्र विख्यातः श्रीसाधुटोडरः सुधीः। महोदारो महाभागो महिम्ना कुलदीपकः ॥ ६६ ॥ श्लाघ्यः साधुसभामध्ये क्रियावान् धर्मतत्परः। देवशास्त्रगुरूणां च वत्सलो चिनयान्वितः ॥ ६७ ॥ परेषां चोपकाराय शक्तिस्त्यागे च यस्य धीः । वित्तं च धर्मकार्येषु चित्तमर्हद्गुणादिषु ॥ ६८॥ रागी धर्मफले धर्मे कुधर्मे तद्विपर्ययः । विमुखः परदारासु सन्मुखो दानसंगरे ॥ ६९ ।। सद्गुणांशेऽपि वा वालो मृको दोषशतेष्वपि । नात्मोत्कर्षविधौ वाग्मी स्वप्नेऽपि न दुराशयः ॥ ७० ॥ किमत्र बहुनोक्तेन सर्वकार्यविधी क्षमः। वित्तपुत्रादिसंपूर्णबैकोऽपि लक्षायते ॥ ७१ ।। कृपालुः सर्वजीवेषु सर्वशास्त्रेषु बुद्धिमान् । दक्षः सर्वावधानेषु श्रावकेषु महत्तरः ॥ ७२ ॥ तस्य भार्या यथा नाम्ना कौसुभी शोभनानना । साध्वी पतिव्रता चेयं भतुश्छंदानुगामिनी ।। ७३॥ तयोः पुत्रास्त्रयः संति प्राच्या भानोरिवांशवः । उग्राश्चापि सदोषेषु निषेिधूपकारिणः ।। ७४ ॥ ऋषिदासश्चिरं जीयात्तत्र ज्यायान् गुणैरपि । स्वतश्चाप्युनते वंशे दिदीप धिरु(स्थिर तेजसा ।। ७५ ।। मोहनाख्यश्चिरायुः स्याद्वितीयोऽप्यद्वितीयकः। कणोऽप्यग्नेर्यथा दाजु भस्मसात्कुरुते रिपून् ।। ७६ ।। १ सर्वकार्येषु । २ श्रेष्ठः ।
SR No.034462
Book TitleJambuswami Charitram
Original Sutra AuthorN/A
AuthorRajmalla Pandit, Jagdishchandra Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1937
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy