SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ द्रव्यविशेषप्रज्ञापकस्तृतीयः परिच्छेदः २५५ ये देहा देहभाजां गतिषु नरकतिर्यग्मनुष्यादिकासु स्वात्मांशानां स्वदेहाकृतिपरिणतिरित्यात्मपर्याय एव । द्रव्यात्मा चत्यशुद्धी जिनवरगदितः कर्मसंयोगतो हि देशावस्थांतरश्चेत्तदितरवपुषि स्याद्विवर्त्यन्तरश्च ॥ ११ ॥ एकोऽप्यात्मान्वयात्स्यात्परिणतिमयतो भावभेदात्त्रिधोक्तः पर्यायार्थान्नयाद्वै परसमय रतत्वाद्वहिर्जीवसंज्ञः । भेदज्ञानाच्चिदात्मा स्वसमयवपुषो निर्विकल्पात्समाधेः स्वात्मज्ञश्चांतरात्मा विगतसकलकर्मा स चेत्स्याद्विशुद्धः ॥ १२ ॥ कर्ता भोक्ता कथंचित्परसमयरतः स्याद्विधीनां हि शश्वद्रागादीनां हि कर्ता स समलनयतो निश्चयात्स्याच्च भोक्ता । शुद्धद्रव्यार्थिकाद्वा स परमनयतः स्वात्मभावात्करोति भुंक्ते चैतान् कथंचित्परिणतिनयतो भेदबुद्धयाप्यभेदे ॥ १३ ॥ भेदज्ञानी करोति स्वसमयरत इत्यात्मविज्ञान भावान् भुंक्ते चैतांश्च शश्वत्तदपरमपदे वर्तते सोऽपि यावत् । तावत्कर्माणि बध्नाति समलपरिणामान्विधत्ते च जीवी नैकेन तिष्ठेत्स तु परमपदे चेन्न कर्ता च तेषाम् ।। १४ ।। शुद्धाशुद्धा हि भावा ननु युगपदिति स्वैकतत्वे कथं स्युरादित्याद्युद्योततमसोरिव जडतपयोर्वा विरुद्धस्वभावात् । इत्यारेका हि ते चेन्न खलु नयवलात्तुल्यकालेऽपि सिद्धेस्तेषामेव स्वभावाद्धि करणवशतो जीवतत्त्वस्य भावात् ||१५|| सदृग्मोहक्षतेः स्युस्तदुदयजनि (?) भावप्रणाशाद्विशुद्धा भावावृत्यावृतेर्वादयभवपरिणामापणाशादशुद्धाः । १ चोदय इत्यपि ।
SR No.034462
Book TitleJambuswami Charitram
Original Sutra AuthorN/A
AuthorRajmalla Pandit, Jagdishchandra Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1937
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy