________________
अथ द्वादशः पर्वः ।
शिवमस्तु सदा तुभ्यं जैनशासनशासनात् । साधुपासांगजस्यास्य तव श्री साधुटोडर ॥ १ ॥ इत्याशीर्वादः ।
नमि नमत्सुराधीश पंचकल्याणभागिनम् । नेमिं धर्मरथस्येव नेमिं नौमि जगद्गुरुम् ॥ १ ॥ अथ प्रभातसमये यदभूच्छ्रेष्ठिनो गृहे । प्रवक्ष्यामि तदेवोच्चैर्यथावृत्तमनुक्रमात् ॥ २ ॥ नैश तस्य कथावृत्तमश्रौषीच्छ्रेणिको नृपः । अर्हदासेन संप्रोक्तं स्वतो गत्वा नृपालयम् ॥ ३॥ क्षणं वैलक्ष्यमासाद्य सान्द्रस्त्रेहवशान्नृपः । धर्मबुद्धया पुनः सोऽयं ज्ञातश्चानंदनिर्भरः ॥ ४ ॥ नेदुदुदुभयस्तत्र श्रेणिकस्याज्ञया तदा । केवलज्ञानसाम्राज्यपदावाप्तिर्जयावहा ।। ५ ।।
मृदंगानकनादैश्व व्याप्तो भूवलयस्तदा । कल्याणेष्वेव तीर्थेशां व्योममार्गे यथामरैः ॥ ६॥ आगतः श्रेणिको भूपः सोत्सुकः श्रेष्ठिनो गृहे । स्नेहार्द्रः सकुटुम्बव वंदितुं स्वामिपंकजम् ॥ ७ ॥ नेत्रवक्त्रादिचेष्टाभिर्निर्विकाराभिरस्य वै । वीरं वैराग्यमारूढं स्वामिनं सोऽप्यजिज्ञपत् ॥ ८ ॥