________________
जम्बूस्वामिविद्युच्चरकथाचतुष्कवर्णनम्
१९५
इतोऽमुतस्ततो दृष्ट्वा बद्धः पूर्वपतिः शरैः।। सोऽहं येनोक्तमेवैतत्सायं चेति वदन्नपि ॥५३॥ तं नीत्वागुश्च स्वस्थाने घातयतः पदे पदे। यष्टिमुष्टिप्रहारैश्च महानिर्दयमानसाः ॥ ५४ ॥ अथ सा चिंतयामास मम श्रेयः पलायनम् । अन्यथा निग्रहोऽस्माकं भविष्यति न संशयः॥ ५५ ॥ विमश्येति तया जारः शिक्षितः स्वीयवार्त्तया। अथ द्वो दंपती भूत्वा गंतुं साढ़े समुद्यतौ ॥५६॥ नीत्वाथ यद्गृहे किंचिद्वस्त्रालंकरणादिकम् । उत्तम बहुमूल्यं च जारेणामा चचाल सा ॥ ५७ ॥ मार्गेऽगाधां नदीं प्राप्य पतिमन्योऽवदत्तदा। प्रिये वस्त्रादिकं मह्यं ददस्वाशु विशंकया (किता) ॥ ५८॥ समुत्तीर्य गते पारे स्थापयामि सुनिश्चलम् । एकत्र सुस्थिते स्थान वस्त्रालंकरणादिकम् ॥ ५९॥ पश्चादागत्य स्वस्कंधे त्वामारोप्य प्रयत्नतः। वेगादुत्तारयिष्यामि निःप्रत्यूहतया प्रिये ॥६०॥ स्वयं धूर्तापि विश्वासान्मन्यमाना तथैव सा ।। ददौ स्वर्णादिकं तस्मै प्रतीता पतिवुद्धितः ॥ ६१॥ सा स्वयं नाग्निका भूत्वा तस्थावर्वाक्तटे कचित् । वीभत्सा निस्त्रपा दृश्या डाकिनीच भयंकरा ॥ ६२॥ अथोत्तीर्य गतः पारे तस्याश्चोपपतिर्जवात् । नागतः पुनरत्रासौ नेतुमेकाकिनीमिमाम् ॥ ६३ ॥ १अमा सह ।