SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ १८८ जम्बूस्वामिचरिते मायामातुलमालोक्य जम्बृस्वामी स्वगौरवात् । आलिलिंग महास्नेहात्पल्यंकादुत्थितो त्वरा ॥ २१२ ॥ पृच्छति स्माथ तं स्वामी मार्गादिकुशलं वरम् । एतावत्सु दिनेषूच्चैः क स्थितं मातुल त्वया ॥ २१३॥. श्रुत्वा विद्युञ्चरोऽवादीद्भागिनेयधिया तदा । वाणिज्यस्य कृते सौम्य शृणु यत्र मया स्थितम् ॥ २१४॥ दक्षिणस्यां दिशि प्राप्य समुद्रं मलयाचलम् । पटीरादिद्रुमाकीर्णमग्रोत्तुंगमनोहरम् ।। २१५ ॥ अगम्यं हि सिहंलदीपं केरलं देशमुन्नतम् । द्रविडं चैत्यगृहारामं जैनलोकपरिवृतम् ।। २१६ ॥ चणिं कर्णाटसंज्ञं च कांबोज कौतुकावहम् । कांचीपुरं सुकात्या वै कांचनामं मनोहरम् ॥ २१७ ॥ कौतलं च समासाद्य सह्यं पर्वतमुन्नतम् । महाराष्ट्रं च वैदर्भदेशं नानावनाङ्कितम् ।। २१८ ॥ विचित्रं नर्मदातीरं प्रदेश विध्यपर्वतम् । विंध्याटवीं समुल्लंघ्य ततश्चलितवानहम् ।। २१९ ॥ आहीरदेश चेउलं भृगुकच्छतटं महत् । यत्र श्रीपालभूपालो धवलश्रेष्ठिनः सुतः ॥ २२० । कोङ्कणं नगरं चाथ किष्किंधनगरं स्फुटम् । इत्यादिकौतुकान्वषी दृश्यं वै कृतवानहम् ।। २२१ ॥ पश्चिमायां च सौराष्ट्रदेशं संदृष्टवानहम् । अनिशं तीर्थकर्तृणां पंचकल्याणपावनम् ॥ २२२ ॥ यत्रोर्जयादिशृंगेषु नेमिनाथो जिनेश्वरः । त्यक्त्वा राजीमती माया कृतवांश्च तपश्चिरम् ।। २२३ ॥
SR No.034462
Book TitleJambuswami Charitram
Original Sutra AuthorN/A
AuthorRajmalla Pandit, Jagdishchandra Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1937
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy