________________
१५०
जम्बूस्वामिचरिते
काचिद्वदति धन्योऽयं जीयाच्चिरतरं जयी । अस्माकं येन सौभाग्यं रक्षितं निघ्नता रिपून् ॥ ८६ ॥ अहो जिनमती धन्या साईद्दासस्य भामिनी । दशमासान् यया गर्भे धृतोऽयं सिंहविक्रमः ॥ ८७ ॥ धन्यः स श्रेणिको भूपो यस्यैतादृग्भटोत्तमः । एकोऽप्यलं सहस्राणां भटानां मानहानये ॥ ८८ ॥ अध्यापणमहावीथ्यां शोभां वणिक्सुतैः कृताम् । पश्यन् स्वामी जगामाशु तोरणं नृपसद्मनः ॥ ८९ ॥ तत्र शोभातिशायित्वं निर्वृत्तं मणिमौक्तिकैः । दर्श दर्श कुमारोऽसौ क्षणं तस्थौ स कौतुकी ॥ ९० ॥ ततः शनैः शनैर्गच्छन् प्रविष्टो नृपमंदिरे ।
आतन्वन् जगदानंदं सौन्दर्य (स्य) सुधांशुभिः ॥ ९१ ॥ नीत्वा तत्र मृगांकस्तं क्रियां सन्मज्ञ्जनादिकाम् । उचितां दासवच्चक्रे प्रश्रयाद्वीतमत्सरः ।। ९२ । सर्वे यद्रवद्भोज्यं मृदुस्निग्धं सुशोभनम् । मृगांकोऽप्यर्पयामास भुक्तये स्वामिनः पुरः ।। ९३ । भुक्तं जम्बूकुमारेण नानाव्यंजन संस्कृतम् । भोजनं स्वादु संमिष्टं पूतं पुण्यफलादिवत् ।। ९४ । ततः कर्पूरतांबूलैचंदनादिद्रवैरपि ।
अर्चितोऽसौ मृगांकेण प्रीत्या सत्कारगौरवात् ॥ ९५ ॥ अथ मध्येसभं स्थित्वा कुमारः करुणापरः । कारालयान्मुमोचामुं रत्नचूलं खगेश्वरम् ॥ ९६ ॥
१ तोरणोsal बहिद्वीरं इत्यमरः । २ रचितम् ।