SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ जम्बूस्वामिश्रेणिकमहाराजराजगृहप्रवेशवर्णनम् १४५ उक्तञ्च"नागुणी गुणिनं वेत्ति गुणी गुणिषु मत्सरी । गुणी च गुणिरागी च विरलः कोऽप्यहो महान् ॥ ३२॥" अहो व्योमगते धीमन् वक्तव्यं न मृषा वचः। खपुष्पे रचितं बंध्यासुतशेखरसन्निभम् ॥ ३३॥ स्वामिजम्बूकुमारेण केवलं निर्जितो बलः। अजय्येऽपि मदीयोऽयं प्रचंडभुजविक्रमात ॥ ३४ ॥ नाभविष्यदयं वीरश्चैकः संग्रामसंकटे । यदकरिष्याम्यहं नूनं तद्रक्ष्यस्त्वमंजसा ॥ ३५॥ कृतं शस्त्रैरुदफ़ैश्च विद्याराधनसाधनैः। पदातयोऽप्यलं हंतुं त्वादृशो मामका अमी ॥ ३६ । बलवानबले सज्जो यथागादुपहास्यताम् । बलिनापि हतो दीनो विलक्षो न तथापरः॥ ३७॥ यथा वारिशिरश्च्छेदी सायको निहते शिवे । लाघवं पाप लग्नोऽपि मृतोऽपि न तथा शिवः ॥ ३८ ॥ गौरवं किंच चेदस्ति युष्मदादिषु सांप्रतम् । नष्टं न किंचिदद्यापि विद्यमानतयावयोः॥ ३९ ॥ तावत्तिष्ठेत्कुमारोऽसौ मध्यस्थः कौतुकी यथा । साक्षात्कारीव युष्माभियुद्धमद्य विधीयताम् ॥ ४०॥ वाक्यं रत्नशिखः भृण्वन् मुगांकरचुकुपे ध्रुवम् । मथितोऽपीन्धनस्तूर्ण सूते धमध्वजं न किम् ॥ ४१ ।। १ ग । २ आग्ने। १०
SR No.034462
Book TitleJambuswami Charitram
Original Sutra AuthorN/A
AuthorRajmalla Pandit, Jagdishchandra Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1937
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy