SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ जम्बूस्वामिचरिते तावन्मुद्गरघातेन शिरस्येनमताडयत् । जम्बूस्वामी महाबाहुः पिनद्धः समरांगणे ॥ २४५ ॥ वज्रसंहननोपेतो दुर्जयो वीरकर्मणि अथापृच्छन्मृगांकः स हास्तिपं स्वीयमादरात्। २४६ ॥ कोऽयमापतितो भूमौ वेगात्केन पराजितः । 1 | अब्रवीत्सस्मितः सोऽयं न त्वं वेत्सि कथं प्रभो ॥ २४७ ॥ विद्याधीशो भवद्वेष्यो रत्नचूलोऽयमात्महा । जम्बूस्वामिकुमारेण वाणैर्जर्जरितो भृशम् । विमानामिमानीतो बद्धः स्वभुजपंजरे ॥ २४८ ॥ गाढं स निगृहीतस्तु दौर्मनस्यं गतो भृशम् । बद्धेऽस्मिन् सैनिकास्तस्य नेशुः सर्वे दिशोदिशम् ।। २४९ ।। ततस्ते त्वद्भटै रुद्धा आनीताः स्वामिनोऽन्तिके । सर्वे गलितमानाश्रास्तस्थुरेत्य हतौजसः ॥ २५० ॥ तुष्टो मृगांकविद्याभृच्चक्रे जयजयारवम् । सर्वे विद्याधरास्तत्र शंसुर्जकुमारकम् ॥ २५९ ॥ धन्योऽसि त्वं महाप्राज्ञ रूपनिर्जितमन्मथ । क्षात्रधर्मस्य चौन्नत्यमद्य जातं त्वया कृतम् ॥ २५२ ॥ नेदुरानंदतूर्याणि गर्जितानीव वारिधेः । मृदंगपटहादीनि सैन्ये केरलभूपतेः ॥ २५३ ॥ बंदिवृंदजयारावं चक्रुरानंदशालिनः । वर्णयंतो महावीर्ये कुमारस्य जयावहम् ।। २५४ ।। १ परिहितकञ्चुकादिः । १४०
SR No.034462
Book TitleJambuswami Charitram
Original Sutra AuthorN/A
AuthorRajmalla Pandit, Jagdishchandra Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1937
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy