SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ जम्बूस्वामिविजयवर्णनम् अथैकोऽप्यंबरस्थायी प्रकृतस्तेजसां चयः। तमस्तोमं विधुन्वानो नोदेति किमु भानुमान् ॥ ८६ ॥ मुक्तं च वृद्धवाक्येषु यत्परीक्षाक्षम वचः । यः कार्यसाधनायालमेकोऽपि च लक्षायते ॥ ८७ ।। इत्यादिकां वचोमालां रचितां श्रेणिकेन । धारयामास वा मूर्ध्नि सादरात्तत्र व्योमगः ॥ ८८ ॥ आज्ञया स्थापयामास खगो दिव्ये विमानके। जम्बूस्वामिकुमारं तमनौपम्यबलान्वितं ।। ८९ ।। व्योममागों तदा यानं गच्छति स्म त्वरान्वितं । शीघ्रमापेप्सितं स्थानं यथा वेगात्मनो जवः ॥ ९ ॥ अथार्नु तं स भूपोऽपि प्रतस्थे श्रेणिकस्तदा । चतुरंगवलोपेतः सार्ध सर्वैर्भटोद्भटैः ॥९१ ॥ भेर्यः प्रस्थानशंसिन्यो नेदुरामंद्रनिःस्वनाः । अकालस्तनिताशंकामातन्वानाः शिखंडिनां ।। ९२ ॥ चलतां रथचक्राणां चीत्कारैर्हयहषितैः । बृंहितैश्च गजेन्द्राणां शब्दाद्वैतं तदाभवत् ॥ ९३ ॥ षडंगबलसामग्या संपन्नः पार्थिवरमा । प्रतस्थे श्रेणिको भूपो रत्नचूलजिगीषया ।। ९४ ॥ महान् गजघटाबंधो रेजे स जयकेतनः । गिरीणामिव संघातः संचारी सहयातिभिः ॥९५ ॥ इच्योतन्मदजलासारसिक्तभूभिमदद्विपैः । प्रतस्थे रुद्धदिक्चक्रः शैलैरिव सनिझरैः ॥९६॥ १ पश्चात् । २ सह ।
SR No.034462
Book TitleJambuswami Charitram
Original Sutra AuthorN/A
AuthorRajmalla Pandit, Jagdishchandra Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1937
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy