SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ जम्बूस्वामिवसंत के लिहस्तिवशवर्णनम् गौरमास्यं सुयोद्धारः पश्यंति स्म परं परम् । विमनस्का वस्तत्र निरुत्साहा निरुद्यमाः ॥ ७६ ॥ श्रेणिकस्तत्र भूपालो विद्यते वै समक्षतः । न शशाक ग्रहीतुं तं सोऽपि मंदाक्षतां गतः ॥ ७७ ॥ जम्बूस्वामि कुमारोऽसौ महावीर्यो महाबलः । तस्थौ तत्र यथास्थाने न चचाल ततो मनाक् ।। ७८ ।। तृणाय मन्यमानः सन् तं तथा मत्तदंतिनम् । निर्भीको धारयामास पुच्छमाकृष्य धीरधीः ॥ ७९ ॥ वज्रास्थिबंधनः सोऽयं वज्रकीलश्व वज्रवत् । वज्रेणापि न हन्येत का कथा कीटहस्तिनः ॥ ८० ॥ यावत्स पौरुषः स्वीयः कृतः सर्वोऽपि दंतिना । भेत्तुं तस्य न रोमांशः शक्यो वज्रतनोस्तदा ।। ८१ ॥ अलं वज्रशरीरस्य दंतिनो विजयेन किम् । अनुषंगादिहाख्यातं नातिमात्रं किमप्यहो ॥ ८२ ॥ उन्मदं विमदीकृत्य हस्तिनं क्षणमात्रतः । आरुरोह ततस्तूर्ण दत्वा पादौ च दंतयोः ॥ ८३ ॥ इतस्ततो महानागं चालयामास दर्पहा । जम्बूस्वामिकुमारोऽसौ सत्कृतः सर्वभूमिपैः ॥ ८४ ॥ अहो वलं कुमारस्य दृश्यतामद्भुतास्पदम् । रौद्रोऽपि हेलया दन्ती स चानेन वशीकृतः ॥ ८५ ॥ अहो पुण्यस्य माहात्म्यं महनीयं महात्मभिः । येन हस्तगतं सर्व यशः सौख्यमथो जयः ॥ ८६ ॥ ११५
SR No.034462
Book TitleJambuswami Charitram
Original Sutra AuthorN/A
AuthorRajmalla Pandit, Jagdishchandra Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1937
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy