SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीकः। अपक्षरजातिकस्य प्रस्तारे चतुर्थरूपं कीदृशं स्यात् । नष्टस्य चतुर्थरूपोंकः समो भवति तस्य समांकस्या कृते लघुर्लभ्यते पुनर्वरितो दौ समौ तयार कृतेपि लधुर्लभ्यते तत उर्वरितः एको विषमः विषमभागं न दत्ते ततो विषमे चैकमादाय एकमध्ये क्षित्वा विषमः समः कार्यः सोप्येको विषमः सैकः सन् दौ जातौ तदर्धे तस्य विषमांकस्य समीकृतस्यार्धे गुरुरेव लभ्यते एवं तावत्कर्तव्यं यावत्पादाक्षरप्रमाणं लभ्यते ततत्यक्षरे छंदसि चतुथै रूपम् ॥ ईदृशं भवति पुनः केनापि पृष्टं चतुरक्षरे छंदास पंचमं रूपं कीदृशं भवति । पंच विषमास्ते सैका जाताः षट् तदर्षे विषमत्वाद्गुरुः पाप्यते । पुनबयो विषमाः सैका जाताश्चत्वारस्तदर्धे च गुरुलभ्यते ॥ उर्वरितौ दौ समौ तदपि च लघुःप्राप्तः पुनरुर्वरित एकोऽस्य विषमस्याङ्क न भवति ततः एकमादायाधं कृते गुरुः प्राप्तः ततश्चतुरक्षरे छंदास पंचमं रूपम् । ईदृशं भवति इत्याम्नायः ॥ १॥ इति नष्टविधिः । उद्दिष्टमाह । उदिष्टमिति । कोऽर्थः केनापि पट्टके रूपं लिखित्वा कियत्तम रूपमिदमिति पृच्छति । इदमुद्दिष्टमुच्यते उदिध यावंतो वर्णा लिखिताः संति तेषां मध्य आचमक्षरमादौ कृत्वा सर्वेषामुपरि दिगुणितानकान् समालिखेत् आयवर्णस्य मस्तके एकैको लेख्यः ततः स्थानदिगुणिता अंकाः शिरसि लेख्याः कथं द्वितीयवर्णस्योपरि द्विकस्तृतीयवर्णस्योपरि चतुष्ककः चतुर्थवर्णस्योपरि भष्टको देयः पंचमवर्णस्योपरि षोडश देयाः षष्ठवर्णस्योपरि द्वात्रिंशदका देयाः एवं तावद्यावदंत्यवर्णोपर्यकः स्यात्तत्र येऽका गुरुरूपोपरि लिखिताः संति तैन कार्यम् । लघुस्थाः लघुवर्णोपर्यपि कास्तत्र ते एकतो मूल्यंते एकीकृत्य पुनरेको मध्ये क्षिप्यते ततस्तैलंघुस्थैरकैमिश्रितैरकीकृतैः सैकैरेकसाहितैर्यावदको भवेत्तावत्तममिदं रूपमिति वक्तव्यम् ॥ १॥ इत्युद्दिष्टस्यानायः समाप्तः॥ वर्णान् वृत्तभवान् कानुत्तराधरतः स्थिताम् ॥ For Private and Personal Use Only
SR No.034374
Book TitleShrutbodh Vrittartankrou Granthou
Original Sutra AuthorN/A
AuthorKhemraj Krushnadas
PublisherKhemraj Krushnadas
Publication Year1920
Total Pages71
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy