SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीकः। समे पादे निरंतरा अंतररहिता लघवो न स्युः अत्र वैतालीये समकला द्वितीया चतुर्थी षष्ठी च पराश्रिता न भवति कोर्थः द्वितीया लघुरूपा कला तृतीयकलायां न मिलति चतुर्थी पंचम्यां षष्ठी सप्तम्यां चेत्थं न स्यात् पूर्वाश्रिताः स्युःद्वितीया प्रथमायां चतुर्थी तृतीयायामेवं स्यात् । अंते षट् कलाग्रतोऽष्टकलाग्रतश्च रलौ रगणलघू कायौँ ततो गुरुरेक इति चतुष्पादेषु ॥ १ ॥ पर्यते यौँ तथैव शेषं त्वौपच्छंदसिकं सुधीभिरुक्तम् २ पर्यते अंत यौँ रगणयगणौ भवतः शेषं तथैव षट्कला विषमेऽष्टौ समे तदौपच्छंदसिकं सुधीभिः पंडितैरुक्तं भणितम् ॥ २॥ आपातलिका कथितेयं भाद्गुरुकावथ पूर्ववदन्यत् ॥३॥ भागणाद्गुरुको द्वौ यदि भवतस्तदा आपातलिका नाम छंदो भवति अथानंतरमन्यत्पूर्ववत् ॥ ३ ॥ तृतीययुग्दक्षिणांतिका समस्तपादेषु द्वितीयलः ॥४॥ समस्तपादेषु द्वितीयो लघुस्तृतीयेन सह युक् संमिलितो भवेत् तदा दक्षिणांतिका नाम छंदो भवति ॥ ४॥ उदीच्यवृत्तिद्धितीयलः सक्तोऽग्रेण भवेदयुग्मयोः॥५॥ यत्र अयुग्मयोर्विषमपादयोर्द्वितीयो लघुरग्रेण तृतीयेन लघुना सह सक्तः संबद्धो मिलितो भवति सा उदीच्यवृत्तिरुदिता कथिता॥५॥ पूर्वेण युतोऽथ पंचमप्राच्यवृत्तिरुदितेतियुग्मयोः॥६॥ अथ यत्र युग्मयोः समपादयोः पंचमो लघुःपूर्वेण युतश्चतुथैन संयुक्तो भवति सा प्राच्यवृत्तिरुदिता ॥ ६ ॥ यदा समावोजयुग्मको पूर्वयोर्भवति तत्प्रवृत्तकम्।।७॥ For Private and Personal Use Only
SR No.034374
Book TitleShrutbodh Vrittartankrou Granthou
Original Sutra AuthorN/A
AuthorKhemraj Krushnadas
PublisherKhemraj Krushnadas
Publication Year1920
Total Pages71
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy