SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रुतबोधः। वृंदानि समूहास्तैः। सा का यस्यां सर्वे वर्णा दीर्घा गुरुभूताः भवंति । वेदैवैदैश्चतुर्भिर्विश्रामो भवति सा विद्युन्माला । तथा चोक्तं रत्नाकरे । मो मो गो गो विद्युन्माला ॥ १४ ॥ विद्युन्माला । च० अ० ८, ग० म, म, ग, ग यतिः ४,४ ॥ तन्वि गुरु स्यादाद्यचतुर्थ पंचमषष्ठं चांत्यमुपांत्यम् ॥ इंद्रियवाणैर्यत्र विरामःसा कथनीया चंपकमाला।।१५॥ अथ दशाक्षरजातौ चंपकमालालक्षणमाह । तन्वीति । हे तन्वि तन्वंगि सा चंपकमाला कथनीया । सा का यत्र यस्याम् आद्यचतुर्थ प्रथमं चतुर्थ पंचमषष्ठम् अंत्य दशमम् उपांत्यं नवमम् एते गुरवो भवंति यत्र इंद्रियबाणैः पंचभिरक्षरैर्विरामो विश्रामः सा चंपकमाला कथनीया । आधचतुर्थ पंचमषष्ठम् इत्येकत्वे द्विगुददौ । इंद्रियाणि च बाणाश्च इंद्रियबाणास्तैः । तथाचोक्तं रत्नाकरे चंपकमाला चेद्भमसा गः ॥ १५ ॥ चंपकमाला । च० अ० १०, ग० भ, म, स, ग, यतिः ५,५॥ चंपकमाला यत्र भवेदंत्यविहीना प्रेमनिधे॥ छंदसि दक्षा ये कवयस्तन्माणिबंध ते ब्रुवते ॥१६॥ अथ नवाक्षरजातौ मणिबंधलक्षणमाह । चंपकमालेति । हे प्रेमनिधे छंदास छंदोग्रंथे दक्षाः कुशलास्ते कवयस्तन्मणिबंधसंज्ञक बुयते । यत्रांत्यविहीना चंपकमाला भवेत् । चंपकमाला तु दशाक्षरा इदं नवाक्षरं भवेत् । लक्षणं तु तदेव । चंपकमालागतमेव तन्माणबंधं प्रेम्णः निधिरिव निधिः तस्याः संबुद्धौ अंत्यविहीनः अंतेभवोऽत्यो वर्णः तेन विहीना त्यक्ता भवेत् । तदुक्तं रत्नाकरे । भमसैर्युक्ता रुक्मवती ॥ १६ ॥ मणिबंधं । च० अ० ९, ग० भ, म, स, यातः ५,४॥ ॥ ॥ For Private and Personal Use Only
SR No.034374
Book TitleShrutbodh Vrittartankrou Granthou
Original Sutra AuthorN/A
AuthorKhemraj Krushnadas
PublisherKhemraj Krushnadas
Publication Year1920
Total Pages71
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy