________________
७४
वादार्थसंग्रहः
[४ भागः
कर्मत्वाचनवरुद्धत्वस्यापि तनियामकत्वेन नाभिधानं किन्तु कर्मत्वाधवरुद्ध भावनाया आकाङ्क्षा नास्तीत्यगत्या प्रथमान्तपदोपस्थाप्येनैवाकाङ्केति प्रथमान्तपदोपस्थाप्यत्वमेव तन्नियामकमिति सूचनाय परं तदभिधानमिति ।
केचित्तु कर्मत्वाद्यमवरुद्धत्वमात्रोक्तौ धात्वर्थसाधारण्यमिति प्रथमान्तोपस्थाप्यत्वम् । एतन्मात्राभिधाने चन्द्र इव मुखं तिष्ठतीत्यादौ इवार्थसादृश्यविशेषणीभूतचन्द्रसाधारण्यं स्यादिति कर्मत्वाचनवरुद्धत्वमुक्तमित्याहुः । तदसत् । उक्तरीत्या प्रथमान्तपदोपस्थाप्यत्वमात्रस्य तनियामकत्वकल्पनयैवानतिप्रसङ्गेन कर्मत्वाचनवरुद्धत्वस्य तन्नियामकत्वे मानाभावादिति । एतेन प्रथमान्तोपस्थाप्यत्वमात्रस्य नियामकत्वे चैत्रस्तण्डुलः पचतीत्यादौ साधुत्वभ्रमदशायां तण्डुलपदोत्तरप्रथमायाः कर्मत्वादिशक्तिभ्रमदशायां च तण्डुले भावनाया विशेष्यत्वेनान्वयापत्तिरिति कर्मत्वाचनवरुद्ध इति । एतन्मात्राभिधाने च धात्वर्थस्यापि तथात्वापत्तिरिति, प्रथमान्तेति । यद्वा चैत्रः स्वः पश्यतीत्यादौ अव्ययीभूतस्वःपदार्थे प्रथ. मान्तोपस्थाप्ये भावनान्वयापत्तिरिति, कर्मत्वादीति । तत्र प्रथमाया एवं कर्म. स्वार्थकत्वादिति तेन तद्वारणं धात्वर्थवारणाय प्रथमान्तेतीत्यपास्तम् । उक्तरीत्या प्रथमान्तोपस्थाप्यत्वमात्रस्यैव नियामकत्वेनानतिप्रसङ्गादिति। .. ___ यत्तु प्रथमान्तपदजन्योपस्थितिः कर्मत्वादिविशेषणतयोपस्थित्यभावसहकारिणी भावनाविशेष्यत्वेनान्वयबोधहेतुरिति, तदपि तुच्छं, तादृशोपस्थित्यभावस्य सहकारित्वे मानाभावाच्चैत्रः पश्यतीत्यादावतिप्रसङ्गवारणाय कर्मत्वादि. तात्पर्यरहितप्रथमान्तपदजन्योपस्थितित्वेन हेतुताया गुरुलघुत्वात् । अस्तु वा स्वःपदादेरपि तत्र द्वितीयान्तता, अव्ययोत्तरं प्रथमैकवचनमेव भावाख्यातवदित्यत्र मानाभावात् , भावाख्यातस्थले च भावः सत्ता औत्सर्गिकमेकवचनमेवेति विशेषानुशासनस्य सत्वादव तु तदभावादिति संक्षेपः ।
नन्वाख्यातेन कर्तृसंख्यानभिधान एव तृतीयेति पर्यवसितम् । तथाच यत्राख्यातभेदेन युगपत्कर्तृ-कर्मसंख्याभिधानं तत्र तृतीया न स्यादिति चैत्रस्तण्डुलं पचति चैत्रेण पच्यते तण्डुल इति युगपत्प्रयोगोऽसाधुः स्यादित्यत आहचैत्र इत्यादि । तत्रैव संख्यान्वयः, चैत्रः पचतीत्यत्र फाख्यातेन कर्तर्येव संख्यान्वयः। चैत्रेण पच्यते तण्डुल इत्यत्र च कर्मणि तण्डुल एव कर्माख्यातार्थसंख्यान्वयः । तथाच तदाख्यातपदेन यत्र कर्तृसंख्यानभिभानं वत्र तदारूपातैकवाक्यतापन्नप्रातिपदिके तृतीया, तदाख्यातेन यत्र कर्मसंख्यानभिधानं तब तदाख्यातैकवाक्यतापनप्रातिपदिके द्वितीयेत्याख्यातभेदेनानभिहिताधिकारीयसूत्रार्थो वक्तव्य इति नोक्तदोष इति भावः ।
ननु भावनाविशेष्ये प्रथमान्तोपस्थाप्य एव यदि संख्यान्वयस्तदा चैत्रेण सुप्यत इत्यादौ प्रथमान्तपदाभावात्संख्यान्वयो न त्यादित्याशङ्कायामिष्टाप