________________
१३ ग्रन्थः]
आख्यातशक्तिवादः।
अत्र वदन्ति-भावनाविशेष्ये संख्यान्वयःसमानपदोपात्तत्वेन एकान्वयित्वस्योचितत्वात् । भावनायाश्च विशेष्यत्वेनान्वययोग्यः कर्मत्वाचनवरुद्धः प्रथमान्त
कर्तृकर्मेति । एकदेति । दृढतरबोधसामग्र्याः प्रतिबन्धकत्वं फलबलात्कल्प्यते । यद्वा—सकर्मकधातूत्तराख्यातजन्ये कर्तृबोधे कर्मबोधकविभक्तिसमभिव्याहृताख्यातजन्यकर्तुपस्थितेः, कर्मबोधे च तृतीयान्तपदसमभिव्याहृताख्यातजन्यकर्मोपस्थितेः कारणत्वे तात्पर्य, तेन ' मैत्रेण तेमनं चैत्रस्तण्डुलं पक्ष्यते ध्रुवम् ' इत्यतो बोधः सुघटः । एतत्कल्पे चैत्रः पचतीत्यादौ तण्डुलमित्याद्यध्याहारेणैव बोध इति बोध्यम् । अत इति । इतरथा पक्ष्यत इत्यस्य कर्तरि कर्मणि च साधुत्वान्मैत्रः पाककर्ता तण्डुलः पाककर्मेति बोधस्य ततो दुर्वारत्वादुभयत्र प्रथमा स्यादेवेति भावः । नन्वेवमपि कर्तृमात्रतात्पर्यकान्मैत्रः पच्यत इत्यतः कर्तृमात्रबोधः स्यादत्राह-कर्तरीति । चस्त्वर्थः ॥ ५ ॥
(मथु०) लाघवादाख्यातस्य यत्न एव शक्तिः संख्याभिधानानभिधानाभ्यामेव प्रथमा-तृतीयादिनियमस्तत्र च संख्यायाः कर्तृकर्मसाधारण्येनान्वयबोधापत्तिरेव मूलबाधिका अतस्तामेवोडरति,-भावनेति। आख्यांतार्थभावनाविशेष्ये इत्यर्थः । तादृशभावनाविशेषणीभूतधात्वर्थादिवारणाय विशेष्येति, तथाच तादृशभावनाया विशेष्यत्वेनान्वये यन्नियामकं तदेव संख्यान्वयेऽपि नियामकं, विशेष्यत्वं च प्रतियोगितेतरसंबन्धेन बोध्यं तेन न पचतीत्यादौ न नअर्थे सं. ख्यान्वय इति भावः । भावना चात्र यत्नो व्यापार आश्रयत्वादिश्च न तु यत्नमात्र, तेनाग्निः पचति चैत्रो जानातीत्यादौ लक्ष्यार्थस्यापि संग्रहः, वर्तमानत्वादेः कृतिसाध्येष्टसाधनत्वादेश्चासंग्रहः ।
केचित्तु कालेष्टसाधनत्वायतिरिक्ताख्यातार्थो भावना इत्याहुः । तदसत् । तथा सति कर्मविभक्त्यर्थस्य फलस्यापि भावनात्वेन पच्यते तण्डुल इत्यादी व्यभिचारभयेनाग्रे मतान्तरानुसरणस्यासङ्गतत्वापत्तेरिति ध्येयम् ।
एकान्वयित्वस्येति। एकविशेष्यान्वयित्वस्यानुमितत्वादित्यर्थः । अनुमानप्रकारच-आख्यातोपस्थापितसंख्या भवनाविशेष्यान्वयिनी कालायतिरिक्तत्वे सति तदुपस्थापकपदस्मारितत्वात् भावनादिवदिति भावः ।
नन्वाख्यातार्थभावनाया एव विशेष्यत्वेन कुत्रान्वय इत्यत आह-भावनायाश्चेति । प्रथमान्तपदानुपस्थाप्यस्यापि धात्वर्थादेर्भावनायां विशेषणत्वेनान्वयादुक्तं विशेष्यत्वेनेति । कर्मत्वाद्यनवरुद्ध इति । अत्र प्रथमान्तपदोपस्थाप्यत्वमात्रोपादाने तण्डुलः पचति चैत्र इत्यादौ प्रथमायाः कर्मत्वे शक्तिभ्रमेण