SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ १३ ग्रन्थः] व्याख्याषट्कयुतः । कृत्यभिधानस्याविशिष्टत्वात् । कर्तृ-कर्मसङ्ख्याभिधानानभिधानाभ्यां नियमः-न चैवं चैत्रेण दृष्टो घट इत्यादौ विनापि तिडं सङ्ख्याप्रतीतेः क्लप्तशक्तेः सुप एवं सङ्ख्योपस्थितिसंभवे तिङो न तदभिधायकत्वमिति वाच्यम् । चैत्रो मैत्रश्च गच्छत इत्यादी विनापि तादृशमुपं द्वित्वादिप्रत्ययात् लाघवादेकवचनत्वादिनैव एकत्वादी शक्तत्वाच्च-इत्यपि नास्ति, कृता सङ्ख्यानभिधानात् । किंच एकत्वादिसंख्याभिधाने न नियमः पदार्थतावच्छेदकावच्छिन्नस्याकाङ्कादिवशात् कर्तृकर्मसाधारण्येनान्वयबोधस्य दुर्वारत्वात् । ककत्वत्वादिनाभिधानेऽपि कर्नादेरप्यभिधेयत्वं, शक्तौ शक्ततावच्छेदकशक्यतावच्छेदकयोश्च गौरवमधिकम् । तस्मादाख्यातत्वेन कर्तरि, आत्मनेपदत्वेन च कर्मणि एकवचनत्वादिना तत्तदूपेण वा एकत्वादी शक्तिः; एकपदोपात्तत्वाच संख्याया वाच्यगामित्वम्। कर्तृ-कर्मबोधकत्वं च एकदाऽव्युत्पन्नम् , अतएव मैत्रः पच्यते तण्डुल इत्यादयो न प्रयोगाः । कर्तरि य कोऽसाधुत्वाच्च पच्यते चैत्र इत्यादयोऽपि कर्तरि नेति वैयाकरणाः ॥५॥ तयोः तृतीया-द्वितीययोः । अनभिहिताधिकारीयत्वादिति कर्तृ-कर्मणोरनभिदान शिवाढशिष्टत्वादित्यर्थः । ननु द्वितीयातृतीयानुशासनस्याख्यातेन कृत्यनभिधाने कर्मणि द्वितीयेत्येवार्थ-इत्यतआह-कृत्यभिधानस्योति । अविशिष्टत्वादिति भवन्मते कर्तृकर्माख्यातसाधारणत्वादित्यर्थः । तथाच तण्डुलं पचतीत्यत्रापि द्वितीया चैत्रेण पच्यते इत्यत्रापि तृतीया न स्यादित्यर्थः । एतच कर्माख्यातस्यापि कृतिबोधकत्वमिति प्राचीनमतानुसारेण, तन्मते अन्वयबोधप्रात: रश्चाग्रे व्युत्पादनीयः।। वस्तुतस्तु कृत्यनभिधानाभिधानस्य तृतीया-द्वितीयानियामकत्वे चैत्रो घर्ट जानातीत्यादावपि कर्तरि तृतीयापत्तेः, कर्मणि द्वितीयानापत्तेः । न चाख्यातेन मुख्य-भाक्तसाधारणकर्मत्वाभिधानानभिधानाभ्यामेव तृतीया-द्वितीयालियम
SR No.034267
Book TitleVadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherGujarati Printing Press
Publication Year1931
Total Pages238
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy