________________
वादार्थसंग्रहः
[ ४ भाग:
व्यापारोपस्थापकाख्यातपदनिरूपितवृत्तिज्ञानजन्यवर्तमानत्वप्रकारकशाब्दबोधं प्रति आख्यातपदनिरूपितवृत्तिज्ञानजन्योपस्थितेः प्रकारतासंबन्धेन हेतुत्वकल्पनेन च तत्राध्याहृतपदार्थे यत्ने वर्तमानत्वान्वयबोधासंभव इति भावः । ननु व्यापारोपस्थापकाख्यातपदज्ञानजन्य वर्तमानत्वप्रकारकशाब्दबोधं प्रति यत्नपदजन्योपस्थितेरपि विशेष्यतासंबन्धेनातिरिक्तहेतुता कल्पनान्नानुपपत्तिरिति, चेत्तादृशातिरिक्तकार्यकारणभावकल्पनापेक्षया आख्यातस्य यत्नत्वविशिष्टे शक्तिकल्पनाया एव लघीयस्त्वात् ।
४६
नन्वयं कालः पाकजनकवर्तमानयत्नवान्पाकजनकवर्तमानव्यापारवत्त्वादित्यनुमानात् पचतीत्यादौ पाकजनकवर्तमानयत्नानुभवनिर्वाह इत्याशङ्कय निराकरोतिन चेति । यत्नविगमेऽपीति । तथा च व्यभिचारात् व्याप्तिग्रहासंभवेन तथाविधानुमितिर्न संभवतीति भावः । ननु तथाविधवर्तमानयत्नविशिष्टकालिक विशेषणतासंबन्धेन तादृशव्यापारस्य हेतुत्वमङ्गीकार्यम् ततो नोक्तानुपपत्तिरत आहधर्मिविशेषेति । चैत्रादिव्यक्तिवृत्तिता चेत्यर्थः । ननु चैत्रस्तथाविधवर्तमानयनवान् तथाविधवर्तमानव्यापारवत्त्वादित्यनुमानेन चैत्रे वर्तमानयत्नानुभवनिर्वा हो भविष्यतीत्यत आह - तद्वयधिकरणेति । तथाविधयत्नव्यधिकरणकाष्ठादिव्यापारस्यापीत्यर्थः । चैतन्याविनाभूतेति । चैतन्यव्याप्येत्यर्थः । इदं तु स्वरूपकथनपरं न तु हेतुतावच्छेदककोटौ निविष्टं, तस्य तत्र निवेशे प्रयोजनाभावादिति । शोभनादेरित्यादि । न च सौन्दर्यापरपर्यायशोभनत्व विशिष्ट1 तथाविधव्यापारस्यैव तत्र तथाविधवर्तमानयत्नानुमापकत्वमुपेयमिति वाच्यम् । काष्ठादेरपि सौन्दर्यसंभवेन तथाविधविशिष्टहेतुसंभवे व्यभिचारस्य दुर्वारत्वात् । यत्तु तथाविधयत्नविशिष्टसमवायादेर्हेतुतावच्छेदक संबन्धत्वाभ्युपगमान्न व्यभिचारावकाश इति तदसत् । तस्य संबन्धतायां प्रमाणाभावात् पचतीत्यादौ सर्वत्र तत्संबन्धघटितव्याप्तिग्रहसत्वे प्रमाणाभावाच्च ।
तन्त्राख्यातस्येति । पचतीत्यादावाख्यातस्य जनकयत्ने लक्षणाया अङ्गीकार्यत्वादित्यर्थः । लाघवेनेति । अनन्यथासिद्धनियतोत्तरवर्तित्वरूपजन्यत्वात्मकस्य व्यापारत्वस्य आख्यातपदशक्यतावच्छेदकत्वकल्पने गौरवात् तदपेक्ष्य कार्यसामान्यजनकतावच्छेदकत्वेन सिद्धाया यत्नत्वजातेरेव तच्छक्यतावच्छेदककोटिप्रवेशनस्योचितत्वमिति भावः । ननु सर्वमिदं संभवति जन्यत्वत्यो क्तरूपत्वे तदेव न तस्यातिरिक्तत्वाङ्गीकारात् । तथा चातिरिक्तजन्यत्वात्मकव्यापारत्वस्य आख्यातपदशक्यतावच्छेदककोटिप्रविष्टत्वे न किंचिद्बाधकमुत्पश्यामः ।