SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ वादार्थसंग्रहः [४ भागः __ अथैवं यत्नस्य वर्तमानत्वं न प्रतीयेत तस्यापदार्थत्वात् । अन्यत्र धात्वर्थक्रियायां स्वार्थव्यापारे वा भवन्तीत्यभिप्रेत्य यदीत्युक्तम् । आख्यातस्य अनुकूलव्यापारार्थकत्वे प्रमाणमाहएवं चेति । कृलो यत्नाबोधकत्वेन यत्नत्वविशिष्टशक्तिसाधकहेतोरसिद्धत्वे चे. त्यर्थः । ननु तथाऽपि शक्तिसामान्यसाधकहेतोरेव विनिगमकाभावाद्यत्नत्वविशिष्टे शक्तिः सिध्यत्वित्यत्राह-अचेतनेऽपीति । तण्डुलादावित्यर्थः । रथो गच्छतीत्यादौ गत्यादिमत्त्वमात्रप्रतीतेरेवोक्तत्वात्तत्परित्यक्तम् । बाधकं विनेति । यत्नशक्तेरसिद्धावन्यलभ्यत्वादिति बाधकाभावादिति भावः । जनकव्यापारो जनकव्यापारत्वविशिष्ट: । व्यापारत्वं चात्र जन्यत्वादिमात्रमितरांशवैयर्थ्यात् । अत्र यत्नत्ववदात्मसंयोगादेापारस्य ईश्वरे सत्वादीश्वरः सृजति वेदं वक्तीत्यादेर्नानुपपंत्तिरिति बोध्यम् । जनकत्वांशेऽनन्ययासिद्धत्वांशफलमादर्शयति-तण्डुलेति । नातिप्रसङ्गः तण्डुलक्रयादिदशायां तमादाय न पचतीति प्रयोगप्रसङ्गः । अन्यथा तवापि तदनुकूलकृतिमादाय तत्प्रसङ्गादिति भावः । तर्हि आख्यातस्य यत्नत्वविशिष्टाबोधकत्वे। पाकेति । पाकजनकयत्नत्वेनानुभव इत्यर्थः । यत्नेति । पाकजनकेत्यादिः । पाकादिनेत्यादिपदात्पाकानुकूलव्यापारपरिग्रहः । अयं काल: पाकजनकयत्नवान् पाकादिमत्त्वादित्यनुमानं बोध्यम् । यत्तु पाको यत्नवान् पाकात् । जन्यत्वतादात्म्ये साध्यसाधनतावच्छेदके इति । तन्न । पाकप्रकारकयत्नप्रतीत्यसंपत्तेः । प्रसिद्धसाध्यके साध्यविशेष्यकानुमानस्यासंभवादिति बोध्यम् । नन्वेवमपि करोतिना विवरणान्मास्तु यत्नवाचकत्वम् । पाकयत्नवानिति विवरण तु स्यादित्यत्राह-पचतीति । पचतीति वाक्यं पाकयत्नवानिति वाक्यार्थतात्पयकमिति तात्पर्यविवरणान्न वाक्यार्थः । स चानुमानलभ्यार्थेऽपि तात्पर्यसंभवादविरुद्धो वहिपरे धूमोस्तीति वाक्य इवेत्यनुमानलभ्यत्वान्न तत्र शक्तिसिद्धिरिति भावः । अन्यथाऽन्यलभ्यस्यापि विषयस्य शक्यत्वे । धर्मिणोपीऽति । पचतीत्येतावन्मात्रस्य पाकयत्नवानिति विवरणात् यत्नाश्रयस्य कदाचिदनुमानल. भ्यस्य कदाचित्समभिव्याहतप्रथमान्तपदलभ्यस्याख्यातवाच्यतापत्तेरित्यर्थः ॥३॥ (मथु०) अथैवमिति । एवं प्रवृत्तित्वविशिष्टस्य आख्यातानुपस्थाप्यत्वे, वर्तमानत्वमाख्यातोपस्थापितं वर्तमानत्वं, यलस्य प्रवृत्तित्वविशिष्टस्य, अपदाथत्वात् पदानुपस्थितत्वात् “ शाब्दीयाकाङ्केति नियमादिति भावः। अर्थाध्याहारवादिमतमालम्म्य कदाचिदपदार्थेऽप्यन्वयो वक्तुं शक्यते इत्यतो व्युत्पत्तिबिरोधमप्याह-अन्यत्रेति।
SR No.034267
Book TitleVadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherGujarati Printing Press
Publication Year1931
Total Pages238
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy