________________
३४
वादार्थसंग्रहः
[ ४ भाग:
तथा सति गङ्गापदादेरपि तीरशक्तत्वापत्तेस्तत्रापि गङ्गापदप्रयोगप्राचुर्यस्य वक्तुं शक्यत्वात् । किञ्च प्रयोगमात्रं यदि शक्तिग्राहकं तदा काष्ठादौ व्यापारवाचिकृधातुघटितकारक पदप्रयोगबलेन कृधातोर्व्यापारशक्तेनैयायिकानामपि प्रसङ्गादिति ।
ननु क्रियाश्रये तदनुकूलव्यापाराश्रयमात्रे वा कर्तृपदप्रेयोगे इष्टापत्तिरेवति कथं कर्त्तृपदे कृञो यले निरूढलक्षणा वाच्येत्यत आह-यदीति । न तत्प्रयोगः न कर्तृपदप्रयोगः वैयाकरणमते विवक्षातः कारकाणि भवन्तीत्यस्याभ्युपगमेन करणीभूतष्ठापि कारकप्रयोग इष्ट एवेति यदीत्युक्तम् । एवञ्चेति कृधातोofferraraकले स्थिते तद्विवरणबलेनाख्यातस्यापि व्यापारशक्तत्वे चेत्यर्थः । ' अचेतनेऽपि' वह्निकाष्टादावपि । कृताकृतविभागेनेत्यादिबाधकस्य निरासात् यत्नत्वजात्यनभ्युपगमाद्गौरवमपि नास्तीति बाधकं विनेत्यस्य नासिद्धिरिति भावः । गौणत्वेति लाक्षणिकत्वेत्यर्थः । गौणत्वायोगादिति पञ्चम्यन्तं जनकव्यापार एवाख्यातार्थ इत्यत्र हेतुत्वेन बोध्यं, व्यापारत्वमिह जन्यत्वं धर्मत्वं वा अतः पचतीत्यादेः पाके जनकयनाऽर्थकधर्मबोधकतयोपस्थितिः संभवतीति । नन्वेवं तण्डुलकणकालेऽपि पचतीति प्रयोगः स्यात् पाकजनकीभूततण्डुलक्रयणात्मकव्यापारस्य तदानीं सवादित्यत आह- तण्डुलेति । अन्यथासिद्धतया तस्य न पाकजनकत्वमित्यर्थः । इत्थञ्चानुकूलव्यापारस्याख्यातार्थत्वे चायं दोषः तण्डुलकयणस्थ पाकानुकूलत्वादिति तदुपेक्षितमित्यपि सूचितम् ।
नैयायिकः शङ्कते - कथं तहीति । पाकजनकेति । यद्यपि यस्यापि पाकजनकव्यापारत्वेनानुभवे बाधकाभावस्तथापि चैत्रः पचतीत्यादौ पाकजनकथनानुभवः कथं स्यादित्याशङ्कार्थः । यनाविनेति पाकजनकयनाविनाभूतेनेत्यर्थः । अविनाभूतत्वं व्याप्यत्वं, कारणस्य पाकादिकारणस्य । तेन चैत्रः पाकजनकयल - वान् पाकवत्त्वादित्यनुमानं फलितम् । पाकवत्ता च अयं पाकचैत्रीय इत्यादिप्रतीतिनियामकस्वरूपसंबन्धेन, अतो नासिद्धिरिति ध्येयम् ।
ननु मास्तु करोतिना विवरणबलेनाख्यातस्य यत्नवाचकत्वं कृञो व्यापारवाचकत्वं कृतिवाचकत्वं वेति विवाददशायां कृञः कृतिवाचकत्वसंशयात् पचतिपाकजनकयत्नवानिति विवरणबलात् स्यादेवाख्यातस्य यत्नवाचकत्वमित्यत आह- पचतीति । पाकयत्नवानिति पाकजनक यत्नवानित्यर्थः । तात्पर्यविवरणं पचतीत्यतः पाकजनकव्यापारप्रतीतौ तेन व्यापारेणानुमितो यः पाकजनकयत्नस्तस्य ज्ञापनम् । अन्यथेति विवरणविषयतामात्रेणाख्यातस्य यत्ने शक्तिस्वीकार इत्यर्थः । धर्मिणः पाकजनकयत्नवतः, वाच्यतापत्तेः आख्यातवाच्यतापत्तेः, तस्यापि पाकयत्नवानिति मतुपा विवरणादिति भावः ॥ ३ ॥
(रघु०) ननूपदर्शित विवरणादिबलादाख्यातस्य यत्नवाचकत्वं तदैवायाति यदि कृञो यत्नार्थकत्वं तदेव तु कुतस्तस्य व्यापारत्वविशिष्टे शक्तिकल्पने बाधकाभावा