SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ २० वादार्थसंग्रहः [ ४ भाग: यत्तु विभक्तिजन्यकर्मत्वोपस्थितित्वेन पाकविशेष्यकतण्डुलप्रकार कशाब्दबोचे न हेतुता तदादिना तण्डुल कर्मक पाकशान्दवोस्थले व्यभिचारादिति, तदसत् पाकोदेश्य कतण्डुलकर्मत्वविधेयकशाब्दत्वादीनामेव तादृशोपस्थितिकार्यतावच्छेदकत्वाभ्युपगमेन व्यभिचारविरहादिति । एतेनाव्ययादिपदात्तण्डुलप्रकारेण पाकविशेष्यकबोवे व्यभिचारेण विभक्तिजन्योपस्थितेस्तादृशहेतुता न संभवतीत्यपास्तं, निपाताद्यजन्यत्वस्य कार्यतावच्छेदके निवेशनीयत्वात् । अस्तु वा असाधुप्रथमा विभक्तिकत्वमेव प्रकृते विभक्तित्वम् अव्ययोत्तरं प्रथमोपस्थितत्वेन प्रथमा - विभक्तेरेव साधुत्व स्वीकारात् । तथाच अव्यय-निपातयोरपीदृशविभक्तित्वेन विभक्तिजन्योपस्थितिस्तत्राप्यस्तीति नोक्तव्यभिचारः । न च तथापि जानामि सीता जनकप्रसूतेत्यादौ विभक्तिजन्यकर्मत्वोपस्थितिं विनापि ज्ञाने कार्यतासंवन्धेन सीतादेरन्वयेन व्यभिचार इति वाच्यम् । तत्र प्रथमाविभक्तौ कर्मत्वक्षलणास्वीकारात् सुव्विभक्तौ न लक्षणेति सिद्धान्तस्य च सुव्विभक्तिलक्षणया यज्ञादौ सङ्कल्पवाक्यादिकं न कर्त्तव्यमित्यर्थकत्वात् । एकदेशिनस्तु चैत्रोज्ञानं पाकस्तण्डुल इत्यादौ भेदान्वयबोधवारणाय विभक्तिजन्यकर्मत्योपस्थितेर्न हेतुता येनोक्तस्थले व्यभिचारः स्यात् किन्तु ज्ञानादिप्रकारेण चैत्रादिशाब्दं प्रति चैत्रो ज्ञानमित्यादि - वाक्यजन्यज्ञानाश्रुपस्थितिः प्रतिवन्धिका तादृशोपस्थितिकालेऽपि चैत्रोजानातीत्यादिवाक्यजन्यज्ञानायुपस्थित्या तादृशान्वयबोधदर्शनेन चैत्रोजानातीत्यादिवाक्यजन्योपस्थितीनामिव अव्यय - तदादिपद - जानामिसीतेत्यादिवाक्यजन्योपस्थितीनामपि फलवन उत्तेजकत्वं कल्पनीयमिति न कोऽपि दोष इत्याहुः ॥ २ ॥ - (रघु० ) तत्र व्यापारलक्षणावादिमतं दूषयति — अन्यदीयेति । रथगमनानुकुलनोदयाख्यसंयोगादिमति निश्चलपुरुषेऽयं पुरुषो गच्छतीत्यप्रयोगादित्यर्थः । तथा चाख्यातस्य व्यापारलक्षणावादिमतेऽपि तादृशनिश्चलपुरुषेऽपि गमनानुकूलनोदनाख्यसंयोगादिरूपव्यापारवत्तया पुरुषो गच्छतीत्यादिप्रयोगापत्तिरितिभावः । ननु तादृशपुरुषे तथाविधप्रयोगापत्तिर्नाम तथातिधवाक्यजन्यप्रमात्मकबोधापत्तिः । सा च तादृशपुरुषस्य निश्चलतादशायामुद्भाव्यतेऽन्यदा वा । अन्त्ये इष्टापत्तेः । आद्ये तत्कालान्तर्भावेन तादृशशाब्दबोधाप्रसिद्धया आपत्यसंभव इत्यत आह-- रथो गच्छतीत्यादि । जानातीत्यादि । केचित्तु सामानाधिकरण्यसंबन्धेन वर्तमानगमनविशिष्टे व्यापारे आख्यातस्य लक्षणाकल्पनान्नोपदर्शितापत्तिरित्यत आह गच्छतीत्यादीत्याहुः । कृतिव्यापारयोरित्यादि । * कृतेरप्रतीतेर्व्यापारस्य चाप्रतीतेरित्यर्थः । अत्र प्रथमप्रतीकं जानातीत्यारभ्य द्वेष्टीत्यन्तेनान्वेति द्वितीयप्रतीकं तु विद्यते निद्रातीत्यन्तेन । *क्वचित्कृतिबाधव्यापार लक्षणाकल्पनागौरवाभ्यां क्वचिच्च कृतिव्यापारयोबधेन कृतिव्यापारयोः प्रतीत्यसंभवादित्यर्थः । इति पाठ: 'ननु जानातीत्यादौ आख्यातस्य' इत्यतः प्राक्तन ग्रन्थस्थाने ।
SR No.034267
Book TitleVadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherGujarati Printing Press
Publication Year1931
Total Pages238
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy