SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ १४ वादार्थसंग्रहः [४ भागः वा परम्परासंबन्धेन, शरीरे च स्वसमवायिसमवेतद्रव्यत्वलक्षणेन परम्परासंबन्धेन, असाधारणतदनुकूलताश्रयो व्यापारश्च न क्वचिदात्मनिसंभवतीति भावः । यथा स्वसमवायिसमवेतशरीरारम्भकादृष्टवत्त्वादिरूपपरम्परासंबन्धेन तादृशनिद्राश्रयत्वमात्मनः तथा तदनुकूलव्यापारस्प नाडीक्रियादेरप्यात्मनि तेन संबन्धेन सत्त्वसंभवादुक्तं विद्यत इति । कालसंबन्धित्वरूपस्य विद्यमानत्वस्य चानुकूलव्यापारो न कश्चिद् घटत्वादौ संभवतीति भावः। यत्तु विदेः सत्तार्थकतया तदनुकूलव्यापारस्यैवासंभव इति भाव इति, तन्न, सत्ताजातेस्तदर्थत्वे अविधतेत्यादौ यस्तन्याधतीतत्वाध(न)न्वयापत्तेः । ननु जानातीत्यादावाश्रयत्वस्य रथो गच्छतीत्यादौ गमनादिविशिष्टव्यापारवत्त्वस्यापि प्रत्ययात् तत्रापि निरूढिलक्षणा दुर्वारैवेत्यत आह-गत्यादीदि। रथो गच्छतीत्यादौ गत्याद्याश्रयत्वमात्रप्रतीतेरित्यर्थः। आदिपदादर्थस्त्यजतीत्यादौ त्यागादेः परिप्रहःन पूर्वोकेषु जानातीत्यादिषु ज्ञानादेः परिग्रहः, मात्रांशस्य पुनरुक्तताप. त्तेः। अतएव जानातीत्यस्य पूर्व गच्छतीति पाठः प्रामादिकः, क्वचिश्चात्र मात्रपदसंवलितो न पाठः जानातीत्यस्य पूर्व गच्छतीत्यपि पाठः । तत्र गच्छतिजानातीत्यादौ धात्वर्थातकूलकृतिव्यापारयोरप्रतीतावप्याश्रयत्वस्य प्रतीतौ न तत्र लक्षणासंभव इत्यत उक्तं गत्यादीति, आदिना ज्ञानादिपरिग्रहः इति ध्येयम् । 'आश्रयत्वइति' निरूदिलक्षणा इत्यग्रेतनेनान्वयः, ज्ञानादीनां चतुर्णामाश्रयत्वं समवायेनावच्छेदकतया च बोध्यम् । तेनात्मनि चैत्रादिशरीरे च जानातीत्यादिप्रयोगोपपत्तिः। न वा घटो जानातीत्यादिप्रयोगापत्तिः।गत्यादेराश्रयत्वं च समपायेनैव वाच्यं तेन यथाकथञ्चित् संबन्धेनाश्रयत्वमादाय नातिप्रसङ्गः । न चैव. मात्मा गच्छतीत्यादिप्रयोगो न स्यादिति वाच्यम् । इष्टत्वात् । अहं गच्छामि त्वं गच्छसीत्यादौ उच्चारयित्रादिशरीरस्यैव चैत्रत्वादिरूपेणास्मदादिपदशक्यतया नानुपपत्तिः । अतएव आत्मा पचतीत्यादिप्रयोगवारणाय अवच्छेदकतासंबन्धेनैव कर्तृपदार्थस्य आख्यातार्थयमान्वयस्य साकाङ्क्षत्ववादिनयेऽपि त्वं पचसि अहं पचामीत्यादौ नान्वयानुपपत्तिः । उच्चारयित्रादिशरीरस्यैव चैत्रत्वादिरूपेण युष्मदादिशब्दवाच्यतया अवच्छेदकतासंबन्धेनैव प्रत्तेस्तत्रान्वयसंभवादिति ध्येयम् । ननु तथाप्यनुकूलव्यापारे निरूढ़िलक्षणा आवश्यकी, वर्णो नश्यतीत्यादौ वर्णादिषु वर्तमानोत्पत्तिकनाशविशिष्टव्यापारवत्वप्रतीतेः । तादृशव्यापारवत्ता च नाशकतावच्छेदकसंबन्धेन इत्यत आह-नश्यतीत्यदाविति । तत्त्वेनैवानुभवा. दिति भावः । यद्यपि प्रतियोगितासंबन्धेन आश्रयत्वमेवार्थस्तत्रापि संभवति आत्मा निद्रातीत्यनुरोधेन संबन्धितासाधारणाश्रयत्वस्यैव लक्ष्यत्वात् । तथापि प्रतियोगितात्वप्रकारेणैवानुभवस्य तत्र सर्वजनसिद्धत्वात् तत्परित्यागः । ननु रथो गच्छति चैत्रो जानातीत्यादौ वर्णो नश्यतीत्यादौ च धात्वर्थ-कर्तृपदार्थ
SR No.034267
Book TitleVadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherGujarati Printing Press
Publication Year1931
Total Pages238
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy