SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ १६८ वादार्थसंग्रहः [४ भागः निरस्तम् । इदमुपलक्षणम् । यत्नत्वादिकमुपेक्ष्य आश्रयत्वादेर्गुरुत्वादित्यपि गोध्यमिति दिक् ॥ १७॥ इति महामहोपाध्याय-श्रीमथुरानाथतर्कवागीश विरचितमाख्यातवादरहस्यं समाप्तम् । (राम) गुरुमतं दूषयितुमाह-तत्र तत्रेति । पचति-गच्छतीयादावित्यर्थः । पचतीत्यादौ विक्लित्यनुकूलव्यापारोऽधः सन्तापनादिः । गच्छ. तीत्यादौ संयोगानुकूलव्यापार इत्यर्थः । नन्वेवं न्यायमताविशेष इत्यत आहसर्वत्रेति । धात्वर्थाश्रयत्वं च क्वचित् परम्परया क्वचिच्च साक्षादित्यर्थः । तथा चाश्रयतासंबन्धेन धात्वर्थस्य चैत्रादावन्वयः । साक्षाद्भेदेन नामार्थधा. त्वर्थप्रकारकान्वयबोधश्चाव्युत्पन्न एवेति भावः । नन्वेवमाख्यातार्थः को भवि. ज्यतीत्याकाङ्क्षायामाह-संख्येति । पचतीत्यादौ वर्तमानत्वादिकमाख्यातार्थः । नामार्थधात्वर्थयोर्भेदेन साक्षादन्वयस्याव्युत्पन्नत्वमते स्वाह--क्वचिदिति । पचतीत्यादावाश्रयत्वमाख्यातार्थ इति न नामार्थधात्वर्थयोरित्यादिव्युत्पत्ति. विरोध इति भावः । नश्यतीत्यादौ प्रतियोगित्वस्यैवाख्यातार्थत्वे क्वचिदित्यु. क्तम् । आश्रयत्वादीत्यादिपदेन क्वचित्प्रतियोगित्वमित्यस्य संग्रहः । गुरुमतमपीत्यस्याउपादेयमित्यनेनान्वयः । अनुपादेयत्वे हेतुमाह-तत्र तत्रेति । पचति गच्छतीत्यादावित्यर्थः । वस्तुतस्तु चैत्रः पचतीत्यादिप्रयोगो न स्यात् पाकादेविक्लित्त्यनुकूलव्यापारस्य स्थालीवह्निसंयोगादेराश्रयत्वस्य चैत्रादावभावात पाकविशेष्यकानुकूलकृतिमत्त्वादिरूपपरम्परासंबन्धेनाश्रयत्वं च न प्रामाणिक तथानुभवविरहात् । अपि च तादृशपरम्परासंबन्धावच्छिनाश्रयत्वत्वापेक्षया लाघवेन कृतित्वजातेः शक्यतावच्छेदकताया एव युक्तवादित्यादि स्वयमूहनीयमिति संक्षेपः। इति श्रीमहामहोपाध्याय-रामचन्द्रन्यायवागीशभट्टाचार्य विरचिताख्यातवादटिप्पणी समाप्ता। ( रघु० ) प्राभाकरमतमुपन्यस्य तत्र दूषणमाह-तत्र तत्रेत्यादिना । तत्र तत्र गच्छतीत्यादौ । तत्तत्फलेति । संयोगविभागादीत्यर्थः । 'क्वचिदा श्रयत्वादिकमपीति । भावाख्यातस्थले आश्रयत्वादेरभावात्क्वचिदिति । प्रसङ्गादिति । लक्षणादिना तादृशानुभवोपपादने तु लाघवतर्कस्यैव शरणीकरणीयस्वादिति भावः। इति श्रीरघुदेवभट्टाचार्यकृताख्यातवादटिप्पणी समाप्ता । (जय० ) गुरुमतमाह-तत्र तत्रेति । तानि तानि संयोगविभागविक्लित्यादिरूपाणि । तदनुकूलो व्यापारो गमित्यज्योः स्पन्दः । पचेरमिसंयोगः,
SR No.034267
Book TitleVadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherGujarati Printing Press
Publication Year1931
Total Pages238
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy