________________
१५८
वादार्थसंग्रहः
[४ भाग. प्रतियोगितावच्छेदकताकेति वक्तव्यं तन्त्रायं दोष इति मामकी सूक्ष्मदृष्टिः स्वेति । पार्थान्यसमवेतवावच्छिन्नप्रतियोगितावच्छेदकत्वेनैवकारस्य शक्तिकल्पने चेत्यर्थः । अननुगमाव पार्थपृथिव्यादिभेदेन नानात्वात् । शक्यानन्यं पृथिव्यामेव गन्ध इत्यादौ पृथिव्यन्यसमवेतत्वत्वावच्छिन्न प्रतियोगिताकव्यवच्छेदस्य शक्यत्वेन शक्यानन्त्यमिति भावः । नन्वन्यसमवेतत्वादी व्यवच्छेदे च खण्डशक्तावपि कथं पार्थ एवेत्यादौ पार्थान्यसमवेतत्वावच्छिन्नप्रतियोगिताकव्यवच्छेदस्य बोधस्तेन रूपेण शक्तरकल्पनादित्यत आह-नील इत्यादि । नीलघटत्वावच्छिन्नस्याभावस्य प्रतीतिर्यथेत्यर्थः। अन्वयितावच्छेदकत्वावच्छिन्नप्रतियोगिताकत्वस्य व्युत्पत्तिबललभ्यत्वेन पार्थान्यसमवेतस्वरूपाम्वयितावच्छेदकावच्छिनप्रतियोगिताकत्वं व्यवच्छेदे प्रतीयत इति भावः। नन्वेकपदोपात्तयोविशेषणविशेष्यभावेनान्वयस्यानङ्गीकारे अगत्या शक्यानन्त्यं स्वीकार्यमित्यत आह-समानं चेदमिति । कृतौ आख्यातार्थकृतौ, कालेति, वर्तमानखादीत्यर्थः । तथा च नैयायिकमते एकपदोपात्तयोर्विशेष्यविशेषणभावेनान्वयः, यथा पचतीत्यादौ तथा पचमान इत्यादौ मण्डनस्यापीति भावः । ननु चैत्रेण तण्डुलः पच्यत इत्यादिवत् महीरुहेण विहगः संपुज्यत इत्यादावपि महीरुहवृत्तिव्यापारजन्यधात्वर्थसंयोगशालिवमों वाच्यः । तथा च निश्चले विहगादिकर्मजन्यसंयोगशालिनि महीरुहादौ महीरुहेण विहगः संयुज्यते इति प्रयोगो योग्यः स्यादित्यत आह-धात्वर्थेति । ईदृशव्यवहारानभ्युपगम आह-संयोगेति । महीरुहटत्तिसंयोगाश्रयो विहग इत्याकारिकाया एव प्रतीतेश्चेत्यर्थः । सकर्मकत्वं संयुक्तधात्वादीनां सकर्मकत्वमपीत्यर्थः। नन्वेवं पाक इत्यादिवत् संयोग इत्यादावपि संयोगानुकूलव्यापारः कृदर्थः । तथा च निश्चले महीरुहादावन संयोग इति प्रयोगो न स्यादित्यत आह–संयोग इत्यादाविति । तथाच संयोग इत्यादौ कृतो न व्यापारवाचकतेति नोक्तदोष इति भावः । ननु पचतीत्यादौ पाकजनकवर्तमानयत्नस्य न शाब्दबोधोऽपि कदाचिदानुमानिकादिरूप एवेत्यत आह-पचतीत्यादेरिति । प्रयोगस्य प्रसङ्गादित्यग्रिमेणान्वयः। नन्वदृष्टव्यावृत्तमनुकूलत्वमाख्यातार्थव्यापारे भासते तथैवाकांक्षादिज्ञानस्य हेतुत्वकल्पनादिति नोक्तदोष इत्यत आह-विभागेति । त्यजतीत्यादेरिति । अत्र धात्वर्थो विभागः तदनुकूलश्च पूर्वदेशसंयोगः नासंयुक्तस्य विभाग इति युक्तरिति भावः।
मण्डनमतं सम्यक् त्यजतीत्यादौ धात्वर्थविभागनिरूपितस्य स्पन्दवृत्तेरनुकूलस्यैवाख्याताधर्थव्यापारगतत्वेन भानाभ्युपगमात् कथमन्यथा फलानु