________________
१४६
वादार्थसंग्रहः । [४ भागः ननु विषयत्वादेः कर्मप्रत्ययार्थत्वे ज्ञातो घट इत्यत्र विषयत्वस्य घटादौ भेदान्वयबोधासंभवः, नामार्थयोभेदेनान्वयबोधानङ्गीकारात् । न वा अभेदान्वयबोधः, बाधादित्याह-ज्ञात इत्यादिना । तथा चाख्यातस्थले कर्मप्रत्ययस्य विषयत्वादिकमर्थः । कर्मकृत्प्रत्ययस्य तु . विषयत्वादिकमर्थः । तथाच प्रथमान्तार्थे अभेदेनान्वयः । नामार्थयोरभेदान्वयबोधस्य सर्वसंमतत्वादिति भाव: । ननु सर्वत्र सविषयकधात्वर्थे विषयितया इतरपदार्थस्यान्वयाङ्गीकारे अभुञ्जाने भोजनाय यतत इत्यादिप्रयोगानुपपत्तिः । तदा तत्र भोजनविषयककृत्यभावादित्यत आह-यतत इत्यादिना । तथा च यतिपदार्थातिरिक्तसविषयकधात्वर्थे सर्वत्र विषयित्वेनेतरपदार्थान्वयोऽत्र तु उद्देश्यत्वेनेति भावः । अत एवेति। यतो यतिपदार्थे उद्देश्यत्वेनैवेतरपदार्थान्वयो न तु विषयित्वेन अत एवेत्यर्थः । अभुञ्जानेपीत्यादि । अन्यथा तदा तत्र भोजनविषयककृत्यभावेन तथाप्रयोगानुपपत्तिरिति भावः ॥ १५ ॥
( जय० ) एकत्र चैत्रो घटं जानातीत्यादौ । अन्यत्र चैत्रेण घटो ज्ञायत इत्यादौ । भाक्तकर्मत्वाद्याश्रयवाचकमुदाहरति-ज्ञात इत्यादि । सविषयकपदार्थाभिधायिधातुयोग इति सामान्यत उक्तेऽपवादमाह-यतत इत्यादाविति । कृत्रादिनोपस्थापितेन विषयत्वेनैवान्वयो नतूद्देश्यत्वेन भोजनाय करोतीत्याद्यप्रयोगादत उक्तं-यत्यादिनेति । आदिपदाद्यसुप्रयत्न इति यसधातो: परिग्रहः । तत्रापि पाकाय प्रयासो न तु पाकस्येति प्रयोगात् । यसादिनापि लक्ष. णयोपस्थापितज्ञानादौ तथान्वयादाह-यत्न इति । विषयित्वेन विशेषणतया । उद्देश्यत्वेन उद्देश्यत्वविशेषणतया । तथा चोद्देश्यत्वबोधकचतुर्थ्या घटाय यतत इत्यादिप्रयोगो न तु विषयित्वबोधक-स्पन्दधातुप्रयोग इवेति निराचष्टे-अत एवेति । अभुजाने भोजनविषयकयत्नशून्ये भोजनाय यतत इति तदुद्देश्यकयत्नसत्त्वादिति भावः । ननु कृञो योगे द्वितीयाया विषयित्वेऽर्थे आकाश करोतीश्वर इत्यादिप्रयोगोऽपि स्यादिति चेत् । अत्र प्राञ्च:-उपादाननिरूढलाक्षणिकस्य कर्मवादस्यैवात्र प्रयोगो न तु शक्तस्य तथैव साकांक्षत्वात् । अत एव मिलक्षणानिरूढलक्षणयोरयमेव विशेष उक्तः, यच्छक्तस्यापि न प्रयोगोऽपितु निरूढलाक्षणिकस्यैव । यथा धूमादित्येव हेत्वयवप्रयोगो न तु धूमज्ञानादित्यप्याहुः।
नव्यास्त्वत्र धातोरेवोत्पत्तौ निरूढलक्षणा, द्वितीयार्थों निरूपितत्वमाख्यातार्थो व्यापारः । इत्यं च घटं करोतीत्यादौ घटनिरूपितोत्पत्त्यनुकूलव्यापार