________________
१३ ग्रन्थः] आख्यातशक्तिवादः।
१२७ अत एव चास्याः पदार्थान्विताधेयत्वबोधकसप्तमीतो भेदः । अस्तु वा कर्माख्यातस्येव द्वितीयाया अपि फलमर्थः । स्याद्वा फलव्यापारी पृथगेव धात्वर्थों विशिष्टस्तु अन्वयबललभ्यः ॥ १२ ॥ परे तद्वृत्तिविक्लित्तिजनकस्पन्दानुकूलयनवांश्चैत्र इत्यादिवोध इति भावः । ननु यदि सुत्राधेयत्वस्य धात्वर्थतावच्छेदकेऽप्यन्वयः तदा ग्रामे गच्छति ग्रामे त्यजतीत्यादावपि समवेतत्वं सप्तम्यर्थोऽस्तु, तच्च धात्वर्थतावच्छेदकफले अन्वेतु, द्वितीया-सप्तम्योर्बोधकतायामविशेषादित्यत आह-अतएव चेति । धात्वर्थतावच्छेदकफलान्विताधेयत्वबोधकत्वादेव चेत्यर्थः । अस्याः द्वितीयायाः भेदः बोधकतायां विशेषः । तथाच पदार्थतावच्छेदके सप्तम्यर्थान्वयस्याव्युत्पन्नतया न तत्र धात्वर्थतावच्छेदकान्वितसमवेतत्वं सप्तम्यर्थः, किन्तु स्थाल्यां पचतीत्यादाविव धात्वर्थान्वितपरम्परासंबन्धावच्छिन्नाधेयत्वमेव तदर्थः । न च तथापि द्वितीया-सप्तम्योः पर्यायतापत्तिर्दुर्वारैवेति वाच्यम् । द्वितीयाया आधेयत्वे निरूढलाक्षणिकत्वात् लाघवादेकत्वादावेव तच्छक्तेरिति भावः ।।
एकदेशान्वयासहिष्णुतायामाह-अस्तु वेति । इत्थं च ग्रामं गच्छतीत्यादौ ग्रामनिष्ठसंयोगजनकसंयोगावच्छिन्नक्रियेत्यादिको बोधः, जनकत्वं संसर्गः दण्डवान् रक्तदण्डवानित्यादिवञ्च न निराकासात्वमिति भावः । फल-व्यापारयोः सबंन्धेऽपि धातोः शक्तिकल्पने गौरवं तादृशसंयोगस्य वारद्वयबोधश्चानुभवविरुद्ध इत्यत आह-स्याद्वेति । फलं संयोगत्वादिविशिष्टं, व्यापारः स्पन्दादिर्वा, धात्वर्थजन्यफलशालित्वमेव च कर्मत्वमुक्तदिशैव च पूर्वोक्तव्यवहारातिप्रसङ्गो वारणीय इति भावः।।
केचित्तु ननु द्वितीयायाः फलार्थकत्वे प्राचीननये ग्रामं गच्छतीत्यादेनिराकाङ्गत्वापत्तिः, प्राचीनैर्दण्डवान् रक्तदण्डवान् इत्यादेरपि निराकाडूत्वाभ्युपगमादित्यत आह-स्याद्वेतीत्याहुः।
विशिष्टस्त्विति । गच्छतीत्यादौ जनकतासंबन्धेन फलविशिष्टो व्यापारः, गम्यत इत्यादौ जन्यतासंबन्धेन व्यापारविशिष्टं फलमित्यर्थः । काख्यातस्थले कलं विशेषणं व्यापारो विशेष्यः, कर्माख्यातस्थले फलं विशेष्यं व्यापारो विशेषणं, व्युत्पत्तिवैचित्र्यात् । कर्मविहितसुपामाधेयत्वमर्थः, तेन ग्रामं गच्छति वैत्र इत्यादौ ग्रामत्तिसंयोगजनकस्पन्दानुकूलकृतिमान् तादृशस्पन्दाश्रयत्ववान् पा चैत्रइत्यायन्वयधीः । कर्माख्यातस्याश्रयत्वमर्थः, तेन गम्यते प्रामश्चैत्रेणेत्यादौ चैत्रनिष्ठकृतिजन्यस्पन्दजन्यसंयोगाश्रयो ग्राम इत्यन्वयधीः । कर्मकृतश्चाश्रयोऽर्थः, न गतो ग्रामश्चैत्रेण इत्यादौ यथोक्तस्पन्दजन्यसंयोगाश्रयाभित्रो ग्राम इत्या'मन्वयधीरिति भावः।