________________
१३ ग्रन्थः] आख्यातशक्तिवादः।
१०७ एतेनान्यपदस्यापि खण्डशक्तिकल्पनं निरस्तम् । तथा च मैत्रादन्य इत्यादौ पञ्चम्यर्थप्रतियोगित्वस्य अन्यपदार्थैकदेशभेदान्वयो विनैकदेशान्वयस्वीकारमनुपपन्नः । एवं घटात्पृथगित्यादौ पृथक्पदार्थैकदेशे पृथक्त्वे पञ्चम्यर्यावधिमत्त्वस्यान्वयोऽपि तथा । तथैव घटादपर इत्यादौ नमो विरोधिगुणवति लक्षणया पदार्थैकदेशे विरोधिगुणे पञ्चम्यर्थान्वयेन घटावधिकपरत्वविरोधिगुणवानित्यन्वयबोधोऽपि । तथा चैतेष्विव कृत्प्रत्ययस्थलेऽप्येकदेशान्वयस्वीकारे बाधकाभाव इति ।
ननु गौनित्या पशुरपशुः इत्यादौ गोत्वपशुत्वादौ नित्यत्वपशुभिन्नत्वान्वय. बोधापत्त्या किंचित्पदार्थनिष्ठप्रकारतानिरूपितविशेष्यतासंबन्धेन शाब्दबुद्धिं प्रति मुख्यविशेष्यतासंबन्धेन पदजन्यपदार्थोपस्थितेहेतुत्वस्यावश्यकतया चैत्रस्य नसेत्यादौ नप्तृपदार्थैकदेशे जन्यत्वे कथं चैत्रसंबन्धित्वस्यान्वय इत्याशङ्कायामाहतथैवेति । कार्यतावच्छेदकसंबन्धविशेष्यतायां नप्तृपदार्थातिरिक्तवृत्तित्वनिवेशेनैवेत्यर्थः । साकाङ्कत्वादिति । शाब्दबोधपदार्थोपस्थित्योः कार्यकारणभावस्य कल्पनीयत्वादित्यर्थः । तथा चान्यथानुपपत्त्या गुरुरपि तथाविधकार्यकारणभावः स्वीक्रियत इति भावः । ननु चैत्रस्य नप्तेत्यादौ स्वजन्यताश्रयपुरुषजन्यत्वरूपसंबन्ध एव षष्ठ्यर्थः । तस्यैव नम्रपदार्थादौ जन्यपुरुषजन्यपुरुषेन्वयः । नतु पदार्थैकदेशे जन्यत्वे चैत्रनिरूपितत्वरूपषष्ठयर्थसंबन्धस्यान्वयः । तथा सत्युपदर्शितकार्यकारणभावेन नप्तृपदार्थाद्यतिरिक्तवृत्तित्वस्य विशेष्यतायां निवेशे गौरवात्तथा च नोक्तदृष्टान्तानामवकाश इत्यत आह-अस्तुवेति । कृत्यादिघटित एवेति । स्वानुकूलकृतिमत्त्वादिपरंपरासंबन्ध एवेत्यर्थः। कादिना सममन्वय इति । कृत्प्रत्ययार्थक दी धात्वर्थगमनादिप्रकारकबोधे प्रकारतावच्छेदकसंबन्ध इत्यर्थः । तथा च यथा नप्तपदार्थे उपदर्शितपरंपरासंबन्धरूपषष्ठयर्थस्यैवान्वयः स्वीक्रियते तथा चैत्रादन्य इत्यादौ स्वाश्रयभेदवत्त्वसंबन्धेन भेदविशिष्टे चैत्रप्रतियोगिकत्वस्यान्वयो नत्वेकदेशान्वयोऽपि, तथा गन्तेत्यादावपि कादिरूपकृत्प्रत्ययार्थ एव स्वानुकूलकृतिमत्त्वादिरूपपरंपरासंबन्धेन गमनादेरन्वयो न तु पदार्थकदेशेऽपीति भावः।
ननु चैत्रेण गतो ग्राम इत्यादौ कृत्प्रत्ययेन कर्मादिगतसंख्यानभिधानाद् द्विती यापत्तिरित्यत आह-मुख्येत्यादि । फलादीत्यादिपदेन विषयत्वादिपरिग्रहः । कृत्यादीत्यादिपदेन च रथो गच्छतीत्यादावाश्रयत्वादिपरिग्रहः। द्वितीयादय इत्यादिना तृतीयापरिग्रहः । अत्र चेति चैत्रेण गतो ग्राम इत्यादौ चेत्यर्थः । विशिष्टाभिधान इति । कर्मत्वादिविशिष्टबोधने इत्यर्थः । विशेषणस्याभिधा