________________
८६
वादार्थसंग्रहः
[ ४ भाग:
न पचतीत्यादौ तत्तत्कालवृत्तित्वेन निरूढलक्षणा । न चैवं पष्ठयादेरपि स्वामित्वादौ शक्तिनँद चैत्रस्येत्यादौ निरूढलक्षणेत्यस्त्विति वाच्यम् । तत्र स्वामित्वादेः स्वत्वादितो गुरुत्वादित्यन्ये । प्रागभावध्वंसविशिष्टकालवृत्तित्वं वर्तमानत्वमित्यन्ये । अत्र वर्तमानत्वघटकतया कालभाने प्रयोगाधारत्वस्य ज्ञानं बुद्धिस्थत्वादेखि शक्यतावच्छेदकघटकतया स्वातन्त्र्येणैव वा तन्त्रम् । वस्तुतः पचतीत्याद्यानुपूर्वीज्ञानं स्वाधिकरणवृत्तितत्तत्कालवृत्तिपाककृत्यादिबोधे कारणम् । नातः पूर्वेद्युः पचतीत्यादिप्रसङ्गः । एवमपचदित्याद्यानुपूर्वीज्ञानस्य स्वाधिकरणनिष्ठध्वंसप्रतियोगिकालवृत्तिपाककृत्यादिबोधे हेतुत्वान्नाद्यापचदित्यादेः प्रसङ्गः । इदं चानुवादातिरिक्तस्थले, तत्र च क्लृप्तप्रयोगाधिकरणकाल एव भासते वेन जगतः पितरौ वन्दे इत्यादावाधुनिकानुवादे न दोषः ।
इदं तु बोध्यं न पचतीत्यादौ वर्तमानत्वादिक्रं नञर्थ एवान्वेति न कल भक्षयेदित्यादौ विध्यर्थवत् । नातः पचत्यपि न पचतीत्यादेः प्रामाण्यम् । न वा सिद्धमन्नं न पचतीत्यादौ प्रतियोग्यप्रसिद्धिः । नश्यति नमयति नष्ट इत्यादौ वर्तमानानागतातीता चोत्पत्तिर्यथायथमर्थः । कालविशेपादिश्वोत्पत्तावन्वेति । नातश्चिरनष्टे नश्यति श्वोभाविनाशके परवो नयतीति प्रयोगः, नवा नष्ट इत्यस्यायोग्यत्वं नाशस्यातीतत्वाभावादिति बोध्यम् ।
1
तदबोधकानां वर्तमानत्वाद्यबोधकानाम् । प्रयोगेति । केवलधातोरसाधुत्वादिति भावः । मात्रेणार्थ साधुताव्यवच्छेदः । वैयाकरणास्तु स्तोकं पाक: स्तोकः पाक इति द्विविधप्रयोगदर्शनात् क्रियाविशेषणतया स्तोकं, घञाद्यर्थविशेषणतया स्तोक इति व्युत्पादयन्तो घञादीनामपि धात्वर्थतावच्छेदकविशिष्टे शक्तिमङ्गीकुर्वन्ति । नन्वेवं पच्यते तण्डुल इत्यादौ कर्माख्यातस्थलेऽपि तण्डुलादौ भावनाया बाधितत्वेनानन्वयात्संख्यान्वयो न स्यादत आह-भावनाया इति । अन्यथा वक्ष्यमाणप्रकारेण तथा च तत्र भावनान्वय इति भावः । तव वैयाकरणस्याख्यातमात्रेण कर्तृबोधे यन्नियामकं तन्ममाश्रयत्वेन भावनाबोधे नियामकम् । तवात्मनेपदत्वेन कर्मबोधे यन्नियामकं तन्ममान्यथासंबन्धेन भाव - -नाबोधे इत्यर्थः । नियामकानभिधाने दोषमाह – अत इति । मैत्रेणेति । - यगादिसहकारस्य कर्मबोधे इवान्यथान्वयबोधे नियामकत्वादिति भावः । न च पचतीत्यत्र परस्मैपदस्य कर्मणि शक्त्यभावात्कर्मकर्तृसामग्र्याः प्रतिबन्धकत्वाच्च कर्माबोधसंभवे मम यका न सहकारिताकल्पनमिति वाच्यम् । पच्यते इत्यतः कर्तुरबोधकादपि कर्मणो बोधप्रसङ्गाच्चैत्रेण पच्यते इत्यतः कर्तुरबोधकादपि