________________
२०
वादार्थसंग्रहः
[३ भागः ननु एकेत्यादि पदविशेषणं वा पदार्थविशेषणं वा । आये एकधातुपदोपस्थाप्ययोः फलव्यापारयोः परस्परमन्वयबोधानापत्तिः। द्वितीये तु प्रमेयत्व प्रमेयत्वमित्यादौ पदार्थभेदाभावाव्याप्तिरिति चेन्न । पदार्थे पदार्थसंसर्गस्य विवक्षितत्वात् । अव्यवधानेनोपस्थितिरासत्तिः । तेन गिरिर्भुक्तमग्निमान्देवदत्तेनेत्यादौ न बोधः। ननु पदजन्यसमूहालम्बने सकलपदार्थोपस्थितिसवादासत्तिरस्त्यव अन्यथा काव्यादावन्वयवाक्याच्छाब्दबोधानापत्तिरिति चेत्सत्यम् । अव्यवहितपदार्थोपस्थित्यनुकूलव्यापार एवासत्तिः । एकपदानन्तरमपरपदे कचिदुच्चारणं कचित्प्रतीतीच्छैव व्यापारः। श्लोकादौ पदतात्पर्यप्रदर्शनायैव योजनावाक्यम् । शुकवाक्येऽपि शिक्षकस्यैव व्यापारः । __ कारकत्वं नाम क्रियान्वितकर्तृत्वकर्मत्वादिषट्कान्यतमान्वयित्वम्। दुह : धातोर्विभागानुकूलव्यापारानुकूलव्यापारोऽर्थ इति विभागरूपफलाश्रयत्वाद्गोः कर्मतेति तार्किकास्तन्न । फलद्वयार्थत्वे गोः पयो दुग्धे इति पञ्चम्यनापत्तेः । नचापादानत्वविवक्षया सेति वाच्यम् । तथा सति ग्रामात् त्यजतीत्यस्याप्यापत्तेः । क्रियान्वितेति विशेषणस्याप्यर्थत्वाविषयादपि(?)क्रियान्वितविभत्तयर्थान्वयित्वं कारकत्वमिति तदपि न, वर्षासु भवति वर्षाभूरित्यत्र विभत्त्यभावेन कारकत्वानापत्तौ यणनापत्तेः । तन्मते लक्षणाभ्युपगमेन विभक्त्यनुसंधानस्याप्यभावात् । अनुसंधाने वा नटश्रुतमित्यादौ कारकत्वापत्तौ कारकाद्दत्तश्रुतयोरित्युदात्तत्वापत्तिः । एतेने फलाश्रयत्वं कर्मत्वमित्यपास्तं गां दोग्धीत्यत्राऽव्याप्तेरित्यलम् ।। ___ अनादित्वमनपभ्रष्टत्वमभ्युदययोग्यत्वं वा साधुत्वम् । बोधकत्वं तत्वमित्युक्तौ गाव्यादावतिव्याप्तेः । शक्तत्वं तत्त्वमित्युक्तौ विकरणानामसाधुतापत्तेः । टिघुभादिसंज्ञासु अभ्युदययोग्यत्वाभावेऽपि अनपभ्रष्टत्वादेव साधुत्वम् । देशभाषया क्रियमाणानां कूर्चामंचीत्यादीनामसाधुत्वमेव । आधुनिकनाम्नां संकल्पादौ प्रयोगस्तु भ्रान्त्वैव । कृतं कुर्यादित्यादिनियमात् । असाधुशब्दानां त्वानन्त्यान्न शक्तत्वम्, अर्थबोधस्तु साधुस्मरणद्वारा । अव्युत्पन्नानां तु शक्तिभ्रमाद्बोधः । अन्ये त्वाहुः बोधकतारूपा शक्तिरपभ्रंशेष्वपि दुर्वारैवेति ।। इति श्रीमद्देवीदत्तात्मजरामसेवकतनूद्भवकृष्णाचार्यकृतो
वादसुधाकरः समाप्तिमियात् ॥