SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ विज्ञापनम् । श्रीगुरुचरणारविन्दाभ्यां नमः। यः शास्त्रप्रसिद्धं यं कंचिदेकमर्थमुपादाय तद्विचारपरो ग्रन्थः प्रवतते स वादार्थपदाभिधेयः । प्रयोजनं चैतादृशग्रन्थप्रणयनस्य आकरेषु महानिबन्धेषु वा इतस्ततः प्रकीर्णस्य तद्भिसंबन्धवतो विषयजातस्यैकत्र संकलनं, सूचितस्य व्यक्तीकरणम्, अप्रपञ्चितस्य स्वरूपवैशद्याय प्रपञ्चनं, विमतस्य च वैमत्यहेतून्निराकृत्य व्यवस्थापनं वा । तच्च कचित्समस्तं वचि व्यस्तं यथासंभवं वा द्रष्टव्यम् । तेनाकरेऽकृतपरिश्रमाणामेतदध्ययनमनल्पमुपकरिष्यतीत्यविवादम् । आकरपरिशीलिनामप्यस्यांशत उपकारो भविष्यत्येव प्रकीर्णस्यैकत्र लाभात् । अतो वादार्थमुद्रणे मया प्रोत्साहितो गुजरातीमुद्रणालयाधिपतिः कतिचित्पुस्तकानि समाहृत्य तच्छोधने मामेव न्ययुत । ततोऽहं स्फोटतत्त्वनिरूपणं स्फोटचन्द्रिका प्रातिपदिकसंज्ञावादः वाक्यवादश्चेति वैयाकरणसिद्धान्तानुसारिणश्चतुरो वादार्थान् यथामति पर्यशोधयम् । तत्र स्फोटतत्त्वनिरूपणस्य कर्ता भट्टोजिदीक्षितानां गुरुः काशीनिवासी शेषोपनामा कृष्णपण्डितः । एतत्कृतं प्रक्रियाकौमुदीप्रकाशः कंसवधनाटकं चेति ग्रन्थद्वयमपि प्रसिद्धम् । स्फोटचन्द्रिकाकर्ता काशीस्थ एव मौनिकुलावतंसगोवर्धनपण्डितस्य तर्कभाषाटीकाया न्यायबोधिन्याश्च प्रणेतुर्नप्ता । अनेनापि शब्दार्थतर्कामृतं लघुविभक्त्यर्थनिर्णयश्चेति ग्रन्थद्वयं प्रणीतमिति ज्ञायते । तत्र लघुविभक्त्यर्थनिर्णयोऽस्माभिरुपलब्धः। शब्दाथेतर्कामृतं तु अस्मिन्नेव पुस्तके स्फोटचन्द्रिकायाः षष्ठे पत्रे नवम्यां पड्तौ ग्रन्थकृता स्वकृतत्वेन निर्दिष्टम् । तच्च नोपलब्धम् । प्रातिपदिकसंज्ञावादस्य
SR No.034264
Book TitleVadarth Sangraha Part 01 Sphot Tattva Nirupan Sphot Chandrika Pratipadik Sangnavad Vakyavad Vakyadipika
Original Sutra AuthorN/A
AuthorMahadev Sharma Gangadhar Bhatt
PublisherGujarati Printing Press
Publication Year1913
Total Pages98
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy