SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ प्रमाणाप्रकरणम् । त एतेन स्वोत्पत्तौ संविदन्तरानपेक्षत्वमनुभूतित्वमित्यपास्तम् । पूर्वी सकल दोषानतिवृत्तेः । अपि च सविकल्पक प्रत्यक्ष स्यानुमानादीनां च संविदन्तरापेक्षात्पत्तित्वेनाननुभूतित्वात् (१) तत्प्रामाण्यं न स्यात् । स्वसमानविषयसंविदन्तरानपेक्षत्वमभिमतत्मस्वात्मांशयेोरपि स्मृतेः संस्कारजत्वाविशेषात् तत्रानुभूतित्वमव्याप्तमिति सिद्धम् । एवं परेषां कण्ठेोक्तमनुभूतिलक्षणं निरस्य सम्प्रति सम्भावितानि लक्षणान्तराण्यपि निरसिष्यन् स्वोत्पत्तौ संविदन्तरानपेक्षा संविदनुभूतिरिति पक्षं तावदतिदेशेन निरस्यति । एतेनेति । कण्ठेोक्तलक्षणनिरासेनेत्यर्थः । अत्रापि स्वात्पत्सावित्यादिविशेषणात् स्मृतिव्यावृत्तिः । कुतो निरस्तमित्याशय पूर्ववद्वेदवाक्येषु विशेष्याव्याप्तेः सार्त्तयोरात्मस्वात्मांशयेोर्विशेषणाव्याप्तेश्वेत्याशयेनाह । पूर्वोक्तेति । अन्यश्रपि विशेषणाव्याप्तिं समुचिनोति । अपि चेति । निर्विकल्पकलिङ्गशब्दसदृशवस्त्वनुपपद्यमानार्थज्ञानसापेक्षत्वा J 05 त् निर्विकल्पक व्यतिरिक्तप्रत्यक्षादिप्रभितिपञ्चकस्यापि अप्रामाण्यप्रसङ्ग इत्यर्थः । अनन्तरोक्तदोषनिरासाय लक्षणं विशिनष्टि । स्वसमानेति । स्वोत्पत्तावित्येव सविकल्पकादीनां निर्विकल्पकादिसापेक्षत्वेऽपि तत्समान (2) विषयत्वाभावान्न तेष्वव्याप्तिः । स्मृतिस्तु स्वोत्पत्तौ स्वसमानविपूर्वानुभव सापेक्षत्वान्न तत्रातिव्याप्तिश्वेत्याशङ्कितुराशयः । तथापि लैङ्गिकशाब्दयोरव्याप्तिर्षिमर्शे ऽतिव्याप्तिध (१) अननुभूतित्वे - पी. B. पु. (२) तेन निर्विकल्पकादिना समानम् । tex
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy