SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ सटीकतार्किकरतायाम् प्रकरणादिसध्रीचीनं निरस्तदोषमेव वाकां ब्रूयादिति रहस्यम् ॥ १ ॥ ऽऽ ॥ ३३८ पदजातं वाक्यजातमनन्वितमपार्थकम् ॥ गुणप्रधानभावेनानन्वितार्थं पदजातं वाक्यजातं वापार्थकं नाम निग्रहस्थानमिति । तदुक्तम् पौर्वापर्यीयोगाद प्रति सम्बद्धार्थमपार्थकमिति । पैावीपर्य विशेषणविशेष्यभावः तस्यायोगा नैराकाङ्क्षयम् । तस्मादनन्वितार्थमपार्थकमित्यर्थः । न चेदं निरर्थकं वाचकत्वात् । न चार्थान्तरम् अन्वयाभावात् । सर्वथाप्यसम्भवदन्वयम् यथा कुण्डमजाजिनं फलं पिण्ड इति । दश दाडिमानि बडपूपा इति च । व्यवधानादनन्त्रयं यथा प्रोदनं सरसि भुक्त्वा ज्ञातो यातीति । प्रकरणादिसध्रीचीनम् अर्थनिर्णायकप्रकरणलिङ्गादिसहितम् ॥ ७ ॥ ऽऽ ॥ गुणप्रधानभावेन विशेषणविशेष्यभावेन । अनपेक्षणमनभिमतार्थत्वादिदं वाक्यं निरर्थकान्तर्भूतमित्याशयाह । न चेदमिति । प्रस्तुतानुपयुक्तवचनत्वादिदमप्यर्थान्तरान्तर्भूतमित्यन्नाह । न चार्थन्तरमिति । पललं मांसं पलालं वा । वाक्ययोरनन्वयमुदाहरति देश दाडिमानि षडधूपा इत्यादि । व्यवधानादनन्वयमाकाङ्क्षणीयस्य पदस्य दूरस्थत्वेन झटित्यस्पर्शान्ययम् । सरसि स्नात्वोदनं भुक्तवा यातीत्यन्वयः । विकल्पशेषादनन्वयं भवतीति सम्बन्धः । ३२०
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy