SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ जातिनिरूपणम् । ३०१ त्पन्नानुत्पन्नव्यवहृताव्यवहृत घटाघटसन्दिग्धासन्दिग्धेत्यादापीतर विकल्पोपक्रमाः संगृहीता भवन्ति । एवमियं प्रवर्तते अनित्यः शब्द इति प्रतिज्ञायां तावदाह । अत्र साध्यमनित्यत्वम् अनित्यं नित्यं वा । तन्त्र अनित्यत्वे कदाचित् तदभावाच्छब्दो नित्यः स्यादिति न पश्चादनित्यत्वावकाशः । अथ नित्यं चेदनित्यत्वधर्मस्य नित्यत्वात् तद्धर्मियापि शब्दस्य नित्यता स्यादनाश्रयधर्मावस्थानासम्भवात् । तदिदमुक्तं नित्यमनित्यभावादनित्यम्योपपत्तेर्नित्यसम इति । अनित्यतया माध्ये शब्दे नित्यमनित्यत्वस्य भावाच्छन्दनित्यत्वोपपत्त्यभिधानेन प्रत्यवस्थानं नित्यक्षम इत्यर्थः । किं चेदमनित्यत्वं नित्यं चेत् तर्हि नित्यो धर्मः कथं धर्मिणमनित्यं कुर्यात् । न हि रक्तजपाकुसुमयोगात् स्फटिको नीलः स्यात् । अनित्येन नित्यत्वेन योगादनित्यः शब्दः स्यादिति चेत् तर्हि रक्तजपाकुसुमसंसर्गनिबन्धनस्फटिकारुणिमवद्वातत्वप्रसङ्गः । तदाकावस्तु सम्बन्धात् तदाकारत्वे चटाकारद्रव्यसम्बन्धात् पटस्यापि घटत्वप्रसङ्गश्च स्यात् । अपि च अनित्यमनित्यत्वान्तरयोगादनित्यं स्वभावतो वा पूर्वत्रान 4207 farararaaraः धर्मिग्राहकप्रमाणवाधितत्वादनित्यत्वसाधनमयुक्तमित्यभिप्रायः । अस्यां प्रकारान्तरेण प्रत्यव ६६५
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy