SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ सटीकता किरक्षायाम् यस्यानुकूलतर्केऽस्ति स एव स्यात् प्रयोजकः । तदभावे ऽन्यथासिद्धिस्तस्याः स हि निवारकः॥८॥ तोऽप्रयोजकस्य स्याद्याप्यसिद्धेरसिद्धता | २३२ अनुकूलतर्कवत एव हेतेाः प्रयोजकत्वात् तदभावेऽन्यथासिद्धिः स्यात् । उपाधिविधूननद्वारेणान्यथासिद्विशङ्कानिरसन हेतु स्तर्क इत्युक्तत्वात् । अन्यथासिद्धोऽप्रयोजक उपाधिमानिति पर्यायाः । यथाहुः । समासमाविनाभावावेकत्र स्तो यदा तदा । समेन यदि ना व्याप्तस्तयोहींनाऽप्रयोजकः ॥ इति कथमिति । तर्कविधूतान्यथा सिद्धिशङ्कस्यैव हेतोः प्रयोजकत्वात् तद्रहितोऽप्रयोजकः स च निरुपाधिकसम्बन्धलक्षव्याप्तिवैधुर्याद् व्याप्यत्वासिद्धित्वान्नातिरिच्यत इति लोकाभिप्रायमाह । अनुकूलेति । ननु तकीभावमात्रेण कथमन्यथासिद्धिरित्यत आह । उपाधीति । पक्षे विपक्षजिज्ञासाविच्छेदस्त नुग्रह इत्यत्रेति भावः । एतावता कथमप्रयोजकस्थानतिरिक्तत्वमत आह । अन्यथासिद्ध इति । अन्यप्रयुक्तव्यातिक इत्यर्थः । स च व्याप्यत्वासिद्ध एवेति भावः । अतोsप्रयोजकस्य सोपाधिकपर्यीयत्वे तावत् सम्मतिमाह । समेत्यादि । यदैकत्र साध्ये समासमा विनाभावो साध्य समव्याप्तिकस्तद्भिन्नव्याशिका हौ हेतू सम्भवतः तयोर्मध्ये यो हीनव्याप्तिको हेतुः समेन समव्याप्तिकेनाव्यासश्चेदन्यथाऽनित्यत्वसाधने सावयवत्व कृतकत्वस्योपा ४६
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy