SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ सटीकतार्किकरक्षायाम् कथावान्तरविधा दर्शयति । वादा जल्पो वितण्डेति तितस्तस्या विधा मताः । तत्र वादस्य लक्षणां फलं च दर्शयति । तत्र प्रमाणतकीभ्यां साधनादोपसंयुता ॥ 99 ॥ वीतरागकथा वादस्तत्फलं तत्त्वनिर्णयः । २५० प्रमाणतर्कीभ्यामेव स्वपक्षसाधनपरपक्षोपालम्भी करणीधावित्यभिमानमात्रमत्र विवक्षितं न ( ) वस्तुतः उभयोरपि तथा कर्तुमशक्यत्वात् । यथाहुः । प्रामाणिकवचनमात्राभिप्रायपूर्विका कथा वाद इति । शपरमित्याशयेनाह । कथावान्तरेति । एवं पदार्थ न्यूनताशङ्का तु प्रागेव निरस्तेत्यास्तां तावत् । उत्तरलोके पादत्रयेणैव वादलक्षणाचतुर्थपादवैय fara फलाभिधानार्थत्वेन सार्थकत्वमाह । तत्रेति । ननु जल्पवितण्डयेोरपि प्रमाणतर्कसम्भवालक्षणमतिव्याप्तमित्याशङ्कयावधारणस्य विवक्षितत्वान्नायं दोष इति व्याचष्टे । प्रमाणत कीभ्यामेवेति । तेन छलादिनिवृतिः । तथा च प्रमाणतकीभ्यामेव स्वपक्षसाधनपरपक्षीपालम्भवती कथा वाद इति लक्षणं द्रष्टव्यम् । ननु पक्षद्वये sपि कथं प्रमाणतर्कसम्भव इत्यत उक्तम् अभिमानमात्रमिति । अवास्तवत्वे हेतुमाह । उभयोरपीति । वस्तुनो द्वैरूप्यासम्भवादिति भावः । प्रामाणिकमात्रं प्रामाणिकमेवेदं वचनमित्यभिप्रायाभिमानः पूर्वी यस्याः सेत्यर्थः । ७५२ (१) न तु पा. C .
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy