SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ निर्णयनिरूपणम् । २०५ TS प्रमाणतकीभ्यां स्वपरपक्षसाधनोपालम्भ बिमर्श पूर्वको यथार्थध्यवसाय निर्णयोऽत्राभिमतः । परीक्षासाध्यमर्थावधारणं निर्णय इत्याचार्यः । तदुक्तम् । विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णय इति ॥ १५ ॥ अथ कथालक्षमाह । 1 ननु तत्त्वावधारणमित्येतावदेव लक्षणमस्तु किं तर्कमानाभ्यामिति विशेषणेनेत्याश हा व्याचष्टे । प्रमातकीभ्यामिति । यः प्रमाणतकीभ्यां स्वपक्षसाधनपरपक्षोपालम्भपूर्वको विमर्शपूर्वकः संशधोपमर्दक इति यावत् यथा स्थाणुरेवायमित्यादि स एव निर्णयपदार्थभिमतो नान्यो यथार्थेऽपीत्यर्थः । तेन घटाद्यवधारणन्युदासान्न विशेषण वैयर्थ्यमिति भावः । यथार्थेति सर्व यथाज्ञानव्युदासः | अर्थव्युदासाय प्रत्यय इति वक्तव्ये स्फुटार्थमध्यवसाय इत्युक्तम् । तयावर्त्यस्य यथार्थीनध्यवसायस्य व्याघातहतत्वादिति । अत्रोदयनसम्मतिमाह । परीक्षासाध्यमिति । परीक्षा तर्कमानाभ्यां विचारो विमर्श इति यावत् । तत्साध्यमिति । अत्र सूत्रसम्मतिमाह । विमृइयेति । पक्षप्रतिपक्षाभ्यां स्वपक्षसाधनपर पक्षोपालम्भाभ्यामित्यर्थः । इति निर्णयपदार्थः ॥ ७५ ॥ ननुद्देशक्रमाद्वादलक्षणे वक्तव्ये किमन्यदनुद्दिष्टमेareroor कथ्यत इत्याशङ्क्य वादादीनां त्रयाणां कथावान्तरभेदत्वात् प्रथमं कथा सामान्यलक्षणं कथयतीत्याह । कथेति । नन्वेवं चेत् कथैव त्रिविधाप्येकः पदार्थ इति पदार्थ न्यूनत्वापत्तिः अन्यथा वादादिवत् प्रमाणादिपदाश्रीवान्तरभेदानामपि पृथकूपदार्थत्वे तदतिरेक इत्युभयथापि षोडशैव पदार्थ इति नियमभङ्ग इति चेत् सत्यम् ७४
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy