SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ तर्कनिरूपणम् । २०३ भावना फलत्वेनावधारयति ज्योतिष्टोमेन स्वर्गं भावयेदिति । एवमन्यत्राप्यन्यथासिद्धिनिरसनादिरनुग्रह) स्तत्रतत्र दर्शयितव्यः । तस्मात् साधूकं प्रमाणानुग्राहकस्तर्क इति । अत एव प्रमाणानामनुग्राहकस्तर्कस्तत्त्वज्ञानाय कल्पत इति भाष्यम् । प्रमाणविषयविभागात् तु प्रमाणानुग्राहक इति च वार्त्तिकम् । अनुजानन्ननुगृहातीति टीकापि । अन्वयव्यतिरेकविषये भूयो दर्शन साहाय्यकमाचरन्ननुग्राहकस्तर्क इत्यात्मतत्त्वविवेकश्च । ननु तर्कस्याहार्यलिङ्गजन्यत्वेन I सानमाह । अस्ति चेति । फलितमाह । इति तर्केणेति । भावना फलत्वेन भाव्यत्वेनेत्यर्थः । अथोपमानादावपि तकीनुग्राहकत्वमतिदिशति । एवमिति । पञ्चषादिप्रमाणवाद्यभिप्रायेण तत्रतत्रेति वीप्सा । उपमानफलस्य मानान्तरसाध्यत्वे तत्प्रकरणोक्तदोषापत्तिरिति तर्केणान्यथासिद्धिनिरासः | आदिशब्दाद् विषयाभ्यनुज्ञानसंग्रहः । परमप्रकृतमुपसंहरति । तस्मादिति । तर्कस्य प्रमाणानुग्राहकत्वे पक्षिलादिसम्मतिमाह । अत एवेत्यादि । विषयविभागाद् विषय विवेकादित्यर्थः । अनुजानन्ननुगृह्लातीति । विषयाभ्यनुज्ञानमेवानुग्रह इत्यर्थः । उदयनेोक्तमानानुग्राहकत्वमप्युपलक्षणं मत्वाह । अन्वयव्यतिरेकेति । अनुमानजीवितव्याप्तिग्राहकप्रमाणोपयोगित्वमेव तदनुग्राहकत्वमित्यर्थः । स्वयमप्रमाणस्य कथं प्रमाणानुग्राह (१) रूपानुग्रह-पा. B पु. 1 ७५५
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy