SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ threewwwmarwomARORam N ameerNaramrramawvaakyowwwwshare weicommamtempiomansombinantalenlidiosmutankinileonilnemiew prividomaititamanna सटीकतार्किकर क्षायाम् जामurmrome oRESERIAntaniwomarwarenevanwDEPE tumsaromansEmesarransmentencesa aon गमकस्यानवस्थान मेवाविनाभावः। कीदृशं च बहिावस्योपपादकत्वम् । न तावत् तज्जनकत्वं तदकार्यत्वात् तस्येत्युक्तत्वात् । स्वासद्धाव एव गृहामावस्यावस्थानमिति चेत् । तहि व्यापकत्वमेवाभिहित ) स्यात् । प्रमाणद्वयविरोध एवानुपपत्तिरिति चेत् । मैवं व्याहृतं भाषिष्ठाः । प्रमाणयोः सतार्विरोध एवानुपपन्न:(२) शुक्नोऽयं घटोऽयमितिवत्सहभागम्येनेति। यथाग्निं विना धूमानवस्थानं तयोर्व्यतिरेकन्याप्तिरेव तदनयोरपीत्यर्थः । एवमनुपपद्यमानार्थस्य गमकस्य व्याप्यत्वमुक्त्वा तदुपपादकस्यापि तद्गम्यस्य व्यापकत्वं वक्तुं तत्स्वरूपं च पृच्छति । कीदृशं चेति । तच तजनकत्वं वा तदवस्थानप्रयोजकस्वावस्थानकत्वं वा । नाद्यः उक्तोत्तरत्वादित्याह । न तावदिति। द्वीतीयमाशङ्कते। स्वेति । तर्हि सिद्ध नः समीहितं नामान्तरेणान्वयव्याप्तेरेवाभिधानादित्याहातहीति। व्याप्यव्यापकभाव एवाविनाभाव इत्यर्थः । तर्हि गृहाभावजीवनग्राहिणोः प्रमाणयोर्विरोध एवानुपपत्तिरिति गुरुः शङ्कते। प्रमाणेति।गोत्वाश्वत्वयोरिव नित्यसहानवस्थायिनो:(३) प्रमाणत्वविरुद्धत्वयोः सामानाधिकरण्यं व्याहतमिति परिहरति । मैवामिति । व्याहतिं ब्यनक्ति। प्रमाणयोरित्यादिनाभावादित्यन्तेन । सति प्रामाण्ये विरोधाभावमुदाहरति।शुक्लोऽयमिति। एकस्मिन्नेव पटे पद (१) अभिमतं-पा• B पु. (२) एव न सम्भवति-पा• B पुः । (३) नित्ययाः सहानवस्थायिना:-पा• 'पु. । SETIMMEDnameter S
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy