SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ কল ६५० GREY WAREMBOSS सटीकतार्किकरतायाम् सादृश्यस्यानिमित्तत्वान्निमित्तस्याप्रतीतितः । समयो दुर्ग्रहः पूर्वं शब्देनानुमयापि च (१) ॥ इति । । मीमांसकास्तु गृह्यमाणपदार्थगतसादृश्यविज्ञानात् तत्प्रतियेोगिकस्मर्यमाणपदार्थगतसादृश्यविज्ञानमुपमानमिति वर्णयन्ति । यथा गामनुभूतवतो वनं गतस्य गवये गृह्यमाणाद्गा सादृश्यात् स्मर्यमाणे नगकेनापि प्रमाणेनाप्रतीतेः पूर्व प्रत्यभिज्ञानात् प्राक् शब्देनातिदेशवाक्येन समयः सतो दुर्ग्रहः अनुमयानुमानेनापि तथा स्वदुक्तलिङ्गविशेषणासि डेरित्यर्थः । अतः सम्बन्धपरिच्छेदार्थ प्रामाणान्तरमास्थेयमित्युपमानसिद्धिरिति ॥ अथ शावरमुपमानलक्षणं दूषयितुमनुभाषते मीमांसकास्त्विति । अत्र गृह्यमाणपदार्थगतसादृश्यज्ञानस्य पथ्यमीनिर्देशात् करणतयेतरत् प्रथमानिर्दिष्टं फलम् तत्सामानाधिकरण्यनिर्देशादुपमानशब्दोऽप्युपमितिवचनस्तदेतदुदाहरणेन स्पष्टीकरोति । यथेत्यादि । तदुक्तं शालिकायाम् । सादृश्यदर्शनात्थं ज्ञानं सादृश्य विषयमुपमानमिति । अन सादृश्यदर्शनं गृह्यमाणपदार्थगतसादृश्यज्ञानं तदत्र करणं तदुत्यं ज्ञानं सादृश्यविषयं स्वर्यमाणपदार्थगतसादृश्याख्यप्रमेयादिविषयं यत् तदुपमानमुपमितिस्तदेव प्रमाणमिति शालिकार्थः । कारिकायां तु सादृश्यदर्शनात्थं ज्ञानं साहश्यविषयमुपमानमित्यत्र विशिष्ट सार्यमाणं वस्तु सहितद्विशिष्ट वा सादृश्यं प्रमेयमित्युक्तम् । (१) बा - पा. C पु. So
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy