SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ प्रमाणप्रकरणे उपमाननिरूपणम् ॥ साधर्म्यमानेोदाहरणानि बहूनि दर्शयित्वा अन्यान्यप्याहस्म भगवान् भाष्यकारः । एवमन्योऽप्युपमानस्य विषयो बुभुत्सितव्य इति ॥ २२ ॥ ऽऽ ॥ वादिविप्रतिपन्तेरुपमानस्य प्रमेयं फलं च दर्शयति । प्रमेयं तस्य सम्बन्धः सञ्ज्ञायाः सञ्ज्ञिना सह ॥ २३॥ तत्प्रतीतिः फलं चास्य नासैौ मानान्तराद्भवेत् । सञ्ज्ञासज्ञ्जिसम्बन्ध उपमानस्य प्रमेयम् फलं च तत्सम्बन्धप्रतीतिः (१) । यथाहुः | सम्बन्धस्य परिच्छेदः सञ्ज्ञायाः सजिना सह । प्रत्यक्षादेरसाध्यत्वादुपमानफलं विदुः ॥ इति । प्रमाणमाह । अत एवेति । तस्य प्रामाण्यसूचनार्थमुक्त भगवानिति । भाष्येोक्तः साधयौदाहरणान्तरत्वशङ्कां निरस्यति । बहूनोति । तत्र निराकाङ्क्षत्वाद्वैधर्म्यादिविषये वेत्यर्थः ॥ २२ ॥ ऽऽ ॥ नन्वस्योत्तरश्लोके प्रमेयफलकथन प्रक्रमविरुद्धं प्रत्यक्षादेस्तदनुक्तेरत आह । वादिविप्रतिपत्तेरिति । पार्थक्ये लक्षणे चेति शेषः । इलाकाक्षराणि योजयति । सज्ञेति ॥ अत्रोदयनसम्मतिमाह । यथाहुरिति । नासौ माना न्तरादित्युक्तम् । अतिदेशवाक्यादनुमानाद्वा तत्प्रतीतेरित्याशङ्क्य न ( १ ) प्रतिपत्तिः - पा· B पु. She
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy