SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ प्रमाण प्रकरणे ऽनुमाननिरूपणम् । वर्तमानमिति । यथा अनित्यः शब्दः कृतकत्वाद् घटवदिति सपक्षव्यापकः कृतकत्वस्य सर्वेष्वनित्येषु वृत्तेः । तयोरेव साध्यदृष्टान्तयोः सामान्यवत्त्वे सत्यस्मदादिबाह्येन्द्रियग्राह्यत्वादिति सपक्षैकदेशवृत्तिः । अनित्येषु द्वाणुकादिष्ववृत्तेः घटादिषु च वृत्तेरिति ॥ १६ ॥ ऽऽ ॥ पक्षादिलक्षणमाह । पक्षः साध्यान्विता धर्मो साध्यजातीयधर्मवान् ॥ १६ ॥ सपक्षोऽथ विपक्षस्तु साध्यधर्मनिवृत्तिमान् । S पकमुदाहरति । यथेति । व्यापकत्वं व्यनक्ति कृतकत्वस्पेति । एकदेशवर्तिनमप्युदाहरति । तथेोरेवेति । अत्र सामान्यवस्वे सतीत्यनेन सामान्यसमवाययोर्व्युदासः । अस्मदादिवाशेन्द्रियपदैः क्रमाद्योगिवाह्मेन्द्रियग्राह्यपरमा ग्वादीनामसदाचन्तरिन्द्रियग्राह्यात्मादीनां शब्दलिङ्गैकग्राह्येश्वरपरमाण्वादीनां च निरासः । ग्राह्यपदेनासिद्धिपरिहारः । अस्य सपक्षैकदेशवृत्तित्वं व्यनक्ति । अनित्येष्विति ॥ १८ ॥ ss ॥ उत्तरइलाकस्योक्तवक्ष्यमाणानुमानसामान्यविशेषलक्षणानन्तर्भावादसाङ्गत्यमाशङ्कयोक्तलक्षणाकाङ्गितपक्षादिलक्षणपरत्वात् सङ्गतिरित्याशयेनाह । पक्षादीति । ર૭.
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy