SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ २२ नाति तावत् । सटीकतार्किकतायाम् तेषां त्रयाणां विशेषलक्षणाभिधानं प्रतिजा तेषां लक्षणमुच्यते । तत्र केवलान्वयिनो शक्षणमाह । सर्वेषु केषुचिद्वापि सपक्षेषु समन्वयि ॥ १५ ॥ विपक्षशून्यं पक्षस्य व्यापकं केवलान्वयि ॥ (a) वक्ष्यमाणलक्षणाः पक्षादयः । तत्र पक्षीकृतेषु सर्वेषु व्याप्त्या वर्तमानं सर्वेषु सपक्षेषु कतिपयेषु वा वर्तमानमविदद्यमानविपक्षं केवलान्वयि । यथा सर्वी दिति कारण लिङ्गकं शेषवदिति कार्यलिङ्गकं ततोऽन्यत् सामान्यता मिति व्याचक्षते तत्प्रकृतविसंवादाचिन्त्यम् । ननु तेषां लक्षणमुच्यत इति प्रतिज्ञा न युज्यते व्याप्तिग्रहणसापेक्षमित्यत्रैवाक्तत्वादित्याशङ्क्य सत्यं सामान्यलक्षणमुक्तं विशेषलक्षणं तु प्रतिज्ञायत इत्याह । तेषां त्रयाणामिति । प्रतिजानातीति परस्मैपदं चिन्त्यम् । सम्प्रतिभ्यामनाध्यान इत्यात्मनेपदस्मरणात् । १६० तञ्चद्देशक्रमादेवोच्यत इत्याशयेनाह । तत्रेति । अत्र विपक्षशून्यमित्यनेनास्य इतराभ्यां भेद उक्तः । पक्षादीनां किं लक्षणमत आह । वक्ष्यमाणेति । यत् प्रथमार्द्ध सपक्षेषु कृत्स्नैकदेशवृत्तिभेदाद्धेतेार्दैविध्यमुक्तं तत् क्रमेणेादाहरति । यथेत्यादि । हेतोरसाधारण्य (१) कृतान्ययम् - पा. A पु.
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy