SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ प्रमाण प्रकरणे ऽनुमाननिरूपणम् । साधनमनुमानम् । प्रत्यक्षादीनां तु प्रमेयव्याप्तिसद्भावे ऽपि तद्ग्रहणापेक्षा नास्तीति ग्रहणविशेषयोन तेषां निरासः । लिङ्गपरामर्शेौऽनुमानमित्याचार्याः । तत्र लिङ्गलक्षणमुत्तरत्र भविष्यति । परामर्श इति च प्रतिसन्धानात्मकं तृतीयलिङ्गज्ञानमभिमतमिति ॥ १२ ॥ 0 व्याप्लिक्षणमाह । ब्यामिः सम्बन्धो निरुपाधिकः । सोपाधिकसम्बन्धवतां मैत्रीतनयत्वादीनां व्याहिमभूदिति निरुपाधिक इत्युक्तम् । स्वाभाविकः सम्बन्धो व्याप्तिरिति यावत् । याह । प्रत्यक्षादीनामिति । प्रमेयादीत्यादिशब्देन सहकायदिसंग्रहः । तच व्याप्तेः प्रायेण सत्तेवापेक्षिता न तु तज्ज्ञान (समित्यदोष इत्यर्थः । उदयनाचार्यैरपीदमेव लक्षणं भङ्गयन्तरेणेोकमित्याह । लिङ्गेति । तस्यार्थं वर्णयम् लिङ्गलक्षणाकाङ्क्षायामाह । तत्रेति । उत्तरत्रेति हेतुलक्षणावसर इत्यर्थः । द्वितीयलिङ्गपरामर्शस्य कारणत्वं केचिदिच्छन्ति तन्निरासार्थमाह । परामर्श इति । किं तत् तृतीयलिङ्गज्ञानं तदाह । प्रतिसन्धानात्मकमिति । तथा चायं धूमवानिति व्याप्तस्य लिङ्गस्य पक्षधर्मतानुसन्धानं प्रतिसन्धानं तदात्मकमित्यर्थः ॥ १२ ॥ ननु श्लेाकशेषेण प्रकृतानुपयुक्तं किमप्युच्यत इत्याशङ्खय नेत्याह । व्याप्तिरिति । विशेषणफलमाह । सेोपाधिकेति । निरुपाधिकशव्दार्थमाह । स्वाभाविक इति । अनन्यप्रयुक्त इत्यर्थः । (१) प्रत्यचादी | (२) ज्ञानं - पा. D .
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy