SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ सटीकता किंकरक्षायाम् । नामादिभिर्विशिष्टार्थविषयं सविकल्पकम् ॥ १९ ॥ श्रविशिष्टार्थविषयं प्रत्यक्षं निर्विकल्पकम् (१) । नामजातिद्रव्यगुण क्रियाभिर्विशिष्टमर्थं विषयीकुर्वत् सविकल्पकं प्रत्यक्षम् । यथा देवदत्तोऽयं ब्राऋणः शुक्लो दण्डी गच्छतीत्यादि । नामादिविशेषणवैधुर्येय स्वलक्षणमात्रविषयं निर्विकल्पकम् । यथाहुः । श्रस्ति ह्यालोचनञ्चानं प्रथमं निर्विकल्पकम् । बालमूकादिविज्ञानसदृशं शुद्ध ( ) वस्तुजम् ॥ इति । निर्विकल्पकमेव प्रत्यक्षमा स्थिषत सागताः । यथाहुः । कल्पनापोढमभ्रान्तं प्रत्यक्षमिति । तदसत् । ६० हानादिव्यवहारहेतुत्वात् सविकल्पकस्य प्राथम्यं रादुन्नेयत्वादन्यस्य तदानन्तर्यम् । उद्दिष्टयेोः पुनरुद्देशः पुनरुक्तिरत आह । तयोरिति । आदिशब्दार्थ दर्शयन्नाद्यं विवृणोति । नामजातीति उदाहरति । यथेति । द्वितीयं विवृणोति । नामादीति । अन भट्टपादसम्मतिमाह । यथाहुरिति । आलोचनज्ञानं व्यवहारानङ्गमाकलनमा त्रमित्यर्थः । आदिशन्दाज्जडमुमूवी दिसंग्रहः । शुद्धवस्तुजं विशेषणविशेष्यभावानुल्लेखीत्यर्थः । अथ सविकल्पकस्य प्रामाण्यपरीक्षार्थी परेषां विप्रतिपत्तिं तावदुपन्यस्यति । निर्विकल्पकमेवेति । आस्थिपत प्रतिज्ञातवन्त इत्यर्थः । आङः स्थः प्रतिज्ञायामित्या । (१) प्रत्यक्षमितरद्भवेत् - पा. पु. । (२) मुग्धेति क्वचित् । ០០៩
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy