SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ लिङ्गानुशासनम् चञ्चेव चचा पुरुषः, अत्र समतया आरोप:, एवमन्येष्वप्यारोपेषूदाहार्यम् । स्त्री किम् ? घवनाम्नो योगात्तद्भार्यायामध्यारोपे प्राश्रयलिङ्गतैव प्रष्ठस्य भार्या स एवेयमित्यभेदोपचारेण प्रष्ठी एवं भवान्यादयोऽपि ।। १ ।। प्रकृतेलिङ गवचने बाधन्ते स्वार्थिकाः क्वचित् । प्रकृतिर्हरीतक्यादिर्न लिङगमतिवर्तते ।। २ । 1 स्वार्थे प्रकृत्यर्थे भवन्ति इति स्वार्थिका ते च क्वचिल्लक्ष्यानुसारेण प्रकृते लिङ्ग वचनं च बाघन्ने, बाधिते च लिङ्ग बहुलं लिङ्गव्यवस्था, संदिष्टा वाक् वाचिक, विनय एव वैनयिक उपाय एव प्रौपयिकम्, योग्ये त्वाश्रयलिङ्गता, वृत्तिरेव वार्तिकं, ह्रस्वा शुण्डा शमी वा शुण्डार : शमीरः क्वचिदनुवर्तते, राज्ञो धूः राजवुरा, मृदेव मृत्तिका मृत्सा मृत्स्ना क्वचिद्विकल्प:, ईषदपरिसमाप्तो गुडो बहुगुडो बहुगुडा वा द्राक्षा, प्रकृतिलिङ्ग प्रतिपत्तिव्युदासार्थं वचनं, हरीतक्यादिका प्रकृतिः प्रत्ययार्थे वर्तमानापि प्रकृत्यर्थलिङ्गनातिक्रामति, हरीतक्याः विकारोऽवयवो वा हरीतकी हरीतक्यौ हरीतक्यः फलानि एवं पिप्पल्यादयोऽपि । मल्लिकाया विकारोऽवयवो वा पुष्पं मल्लिका, एवं मालती यूथिका मागधी नवमालिकादयोऽपि ।। २ ।। वचनं तु खलतिकादिर्बह्वर्थात्येति पूर्वपदभूता । सकानां सहवचने स्यात् परं लिङ्गम् ॥ ३ ॥ [ 49 खलतिकादिका प्रकृतिर्वचनमेव नातिक्रामति, लिङगं तु प्रतिक्रामति । तुरेवार्थे, खलतिको नाम पर्वतस्तस्यादूरभवानि खलतिकं वनानि, बहुविषया प्रकृतिः पञ्चालादिका पूर्वपदभूता सती स्वगतं वचनमतिक्रामति । 'ग्रस्त्र्यारोपाभावे' इत्यस्यापवादः, पञ्चालाश्च निवास : मथुरा च पञ्चालमथुरे । स्त्रीपुंनपुंसकानामिति स्त्रीपुंनपुंसकलिङ्गानां सहवचने परं पुंलिङ्गं नपुंसकलिङ्गं वा भवति, स्त्रीपुंसयोः सहवचने पुंलिङ्गं भवति । सा च स च तौ, स च शाटी च तौ, स्त्रीनपुंसकयोर्नपुंसकम्, सा च वस्त्रं चते, पुंनपुंसक्योर्नपुंसकं, स च तच्च ते स्त्रीपुंनपुंसकानां नपुंसक, सा च सच तच्च तानि ।। ३ ।। नन्ता संख्या डतिर्युष्मदस्मच्च स्युरलिङ्गकाः । पदं वाक्यमव्ययं चेत्यसंख्यं च तद्बहुलम् ।। ४ ।। निःशेषनामलिङ्गानुशासनान्यभिसमीक्ष्य संक्षेपात् । श्राचार्यहेमचन्द्रः समदृभदनुशासनानि लिङ्गानाम् ॥ ५ ॥
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy